आमन्त्रितस्य च

8-1-19 आमन्त्रितस्य च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आमन्त्रितस्य पदस्य पदात् परस्यापादादौ वर्तमानस्य सर्वमनुदात्तं भवति। पचसि दे॒व॒द॒त्त॒। पचसि य॒ज्ञ॒द॒त्त॒। आमन्त्रिताद्युदात्तत्वे प्राप्ते वचनम्॥ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः॥ इह मा भूवन् — अयं दण्डो हरानेन, ओदनं पच तव भविष्यति, ओदनं पच मम भविष्यति। इह च यथा स्यात् — इह दे॒व॒द॒त्त॒ माता ते कथयति, नद्यास्ति॒ष्ठ॒ति॒ कूले, शालीनां त ओदनं दास्यामि इति। आमन्त्रितान्तं तिङन्तं युष्मदस्मच्छब्दौ च यस्मात् पराणि न तेन तेषां सामर्थ्यमिति तदाश्रया निघातयुष्मदस्मदादेशा न स्युः,<<समर्थः पदविधिः>> २.१.१ इति वचनात्॥

Siddhanta Kaumudi

Up

पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तपाष्टस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) । अपादादौ किम् । शुतुद्रि स्तोमम् (शुतु॑द्रि॒ स्तोम॑म्) । आमन्त्रितं पूर्वमविद्यमानवत् <{SK412}> । अग्न॒ इन्द्र॑ । अत्रेन्द्रादीनां निघातो न । पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् । नामन्त्रिते समानाधिकरणे सामान्यवचनम् <{SK413}> समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । अग्ने तेजस्विन् (अग्ने॑ तेजस्विन्) । अग्ने त्रातः (अग्ने॑ त्रातः) । सामान्यवचनं किम् । पर्यायेषु मा भूत् । अघ्न्ये देवि सरस्वति (अघ्न्ये॑ देवि सरस्वति) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सर्वमनुदातं भवतीति । आमन्त्रितसम्बन्धिनः सर्वेऽचोऽनुदाता भवन्तीत्यर्थः । एतच्चानुवृतस्य सर्वशब्दस्यान्वयमात्रं प्रदर्शितम्, न त्वत्रास्योपयोगः कश्चित् । समानवाक्य इत्यादि । अर्थैकत्वादिकं लौकिकं वाक्यलक्षणम्, इह तु पारिभाषिकं वाक्यम् । आख्यातं साव्ययकारकविशेषणं वाक्यमिति, आख्यातमित्येकत्वं विवक्षितम्, निमितनिमितिनोः समान एकस्मिन्वाक्य आधारभूते सति निघातादयो भवन्तीति वक्तव्यम्, किमर्थमित्याह - इहेति ।'भवतीह विष्णुमित्रः, देवदतागच्छ' इति वाक्यद्वयमेतत्; तिङ्न्तद्वययोगात् । तत्र देवदतेत्यस्यामन्त्रितस्य निघातो न भवति । ननु च पदविधिरयम्, ततश्चासामर्थ्यादेवात्र न भविष्यति, अस्त्यत्र सामर्थ्यं विष्णुमित्रमन्विष्यान्यत्र गच्छन्तं देवदतं प्रतीदमुच्यते, ततश्च विष्णुमित्रस्येह भवनं देवदतागमनस्य निमितत्वेनोच्यत इतियस्ति व्यपेक्षा । क्वचिदेतदुदाहरणं न पठ।ल्ते । अयं दण्ड इति । अस्तीति गम्यमानत्वादेतावदेकं वाक्यम् । अत्राप्यनेनेति सर्वनाम्ना परमृष्टस्य दण्डस्य करणत्वादस्ति सामर्थ्यमिति तिङ्न्तस्य निघातप्रसङ्गः । ओदनं पचेति । त्वत्कर्तृकत्वेन त्वत्स्वामिको मत्स्वामिकश्चौदनो भविष्यतीत्येवं पाकस्य युष्म दस्मदर्थस्य च व्यपेक्षाऽस्तीत्यादेशप्रसङ्गः, एवमतिप्रसङ्गपरिहारः प्रयोजनमित्युक्तम् । इदानीमव्याप्रिपरिहारोऽपि प्रयोजनमित्याह - इह चेति । किं पुनः कारणमेषूदाहरणेषु निघातादयो न स्युरित्यत आह - आमन्त्रितान्तमित्यादि । इह स्थिता मातेत्यन्वयः, न त्विह देवदतेति; नद्याः कूलमित्यन्वयः, न नद्यास्तिष्ठतीति; शालीनामोदनमित्यन्वयः, न शालीनां ते इति, ततश्चासामर्थ्यान्न स्युरित्यर्थः ॥