अनुदात्तं सर्वमपादादौ

8-1-18 अनुदात्तं सर्वम् अपादादौ पदस्य पदात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनुदात्तमिति च, सर्वमिति च, अपादादाविति च। एतत् त्रयमधिकृतं वेदितव्यमापादपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामोऽनुदात्तं सर्वमपादादावित्येवं तद् वेदितव्यम्। वक्ष्यति — <<आमन्त्रितस्य च>> ८.१.१९ इति। पचसि दे॒व॒द॒त्त॒। अपादादाविति किम् ? यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्य॑म् (शौ० सं० ८.२.१०)। <<बहुवचनस्य वस्नसौ>> ८.१.२१। ग्रामो वः॒ स्वम्, जनपदो नः॒ स्वम्। अपादादाविति किम् ?

रुद्रो विश्वेश्वरो देवो युष्माकं कुलदेवता।

स एव नाथो भगवानस्माकं शत्रुमर्दनः॥

पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्यते। सर्वग्रहणं सर्वमनूद्यमानं विधीयमानं चानुदात्तं यथा स्यादिति। तेन युष्मदस्मदादेशानामपि वाक्यभेदेनानुदात्तत्वं विधीयते। युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः, यत्रापि स्वादिपदं १.४.१७ पदसंज्ञं भवति। ग्रामो वां॒ दीयते। जनपदो ना॒ै दीयते॥

Siddhanta Kaumudi

Up

इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

यते नियतमित्यादि । अत्र मृत्यो इत्यस्य पादादौ निघाताभावः, यदङ्गदाशुषे त्वमित्येकः पादः, अग्ने इत्यपरः, अग्ने भद्रं करिष्यतीत्यादीनि चोदाहरणानि । रुद्रो विश्वेश्वर इत्यादि । अत्र युष्माकम्, असमाकमित्यनयोरादेशाभावः । ऋक्पादः श्लोकपादश्च गृह्यते इति । विशेषानुपादानात् । अथ सर्वग्रहणं किमर्थम्, यावता ठननुदात पदमेकवर्जम्ऽ इति वचनादेकस्मिन्पदे एक एवोदातः स्वरितो वा सम्भवति । ये तु द्व्युदाताः - ठुभे वनस्पत्यादिषु युगपत्ऽ इति, न येषामत्र प्रकरणे क्वचिदनुदातत्वं विधीयते । यदा तु तेषामामन्त्रितत्वम्, तदा द्व्युदातत्वमेव । इदं तर्हि प्रयोजनम् - अनादेरप्युदातस्यानुदीतत्वं यथा स्यात्, अन्यथा पदीदित्यधिकाराद् ठादेः परस्यऽ इत्यादेरेव स्यात्, ततश्च'तिङ्ङतिङः' इति इहैव स्यात् - देवदतः पचतीति, अत्र हि शप्तिपावनुदातौ, धातोः स्वरः; इह तु न स्यात् - देवदतः करोतीति, विकरणस्वरेण मध्योदातमेतत् पदम् । सर्वग्रहणे तु सति पदस्य सर्वोऽवयवोऽनुदातो भवतीत्यर्थः संपद्यते, लुटि प्रतिषेधात्सिद्धम्, यदयं'न लुट्' इति प्रतिषेधं शास्ति, तज्झापयति -'नात्रादेः परस्येत्येतद्व्याप्रियते' इति । न हि लुडन्तं किञ्चिदाद्यौदातमस्ति । एवमपि ज्ञापकेनापवादे आदिविधावपनीते अलोऽन्त्यस्यैव स्वाद् - उभो कुरुत इत्यादौ ? अत्र असार्वधातुकस्य प्रत्यस्वरेणान्तोदातत्वं विकरणस्य तु निघातः, न तु विकरणस्वरः सतिशिष्टोऽप सार्विधातुकस्वरं बाधते, तासेः लसार्वधातुकानुदातत्वविधानेन ज्ञापनात् । एवं तहि लृटि प्रतिषेधात्सिद्धम्, यदयं'गत्यर्थलोटा लृण्न चेत्' इति लृडन्तस्य प्रतिषेधं शास्ति, तज्ज्ञापयति - नात्र ठलोऽन्त्यस्यऽ इत्येतद्व्याप्रियत इति, न हि लृडन्तं किञ्चिदन्तोदातमस्ति, अदुपदेशात्परं लसार्वधातुकं निहन्यते ? नैतदस्ति; ज्ञापकमिडर्थमेतत् स्यात् भोक्ष्य इति । एतद्धषेकादेशस्वरेणान्तोदातम् । एवं तर्ह्युक्तमेतत् - पदस्येति क्वचिद्विशेषणषष्ठ।ल्पि भवति न स्थानषष्ठ।लेवेति, ततः किम् ? अनुदातविधौ विशेषणषष्ठ।लश्रयिष्यते, तत्सामानाधिकरण्यातिङिति षष्ठ।ल्र्थे प्रथमा, तिङ्न्तस्य पदस्यावयवोऽजनुदातो भवतीत्यर्थः, तत्र स्थानषष्ठ।ल्भावाद् ठलोऽन्त्यस्यऽ इति न प्रवर्तते, तस्मान्नार्थः सर्वग्रहणेन ? इत्यत आह - सर्वग्रहणमित्यादि । असति सर्वग्रहणे यत्र विधेयान्तरं नास्त्यामन्त्रितस्येत्यादौ, तत्रैवानुदातत्वं विधीयेत । तत्र ह्यएतद्विधानार्थमामन्त्रिताद्यनूद्यते, विधेयान्तरसद्भावे तु न तस्यानुदातत्वं विधीयेत; वाक्यभेदप्रसङ्गात् । तथा हिसिद्धस्य वस्तुनो धर्मान्तरं शक्यते विधातुं नासिद्धस्य, न ह्यसति कुड।ले चित्रकर्म; ततश्च वांनावादय एकेन वाक्येन विधेयाः, अपरेण च तेषामनुदातत्वमिति वाक्यभेदः । विशिष्टविधानेऽप्यनेकार्थविधानाद्विधिगौरवलक्षणो वाक्यभेदः स्यादेव । सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते । सति तु सर्वग्रहणे तन्सामर्थ्याद्वाक्यभेदः सह्यते ? इत्याह - तेनेति । प्रयोजनान्तरमाह - युष्मदस्मदादेशाश्च सवस्य सुबन्तस्य यथा स्युरिति । अन्यथा केवलयोर्युष्मदस्मदोरेव स्युः, षष्ठ।लेकवचने ङ्सोऽसि'ङसिङ्सोश्च' इति पूर्वैकादेशे यद्यपि दोषाभावः; तथापि वचनान्तरे दोषप्रसङ्गः । सर्वग्रहणेन तु सति युष्मदस्मद्भ्यां तदवयवकं पदं लक्ष्यत इति सर्वस्य पदस्य वांनावादयो भवन्तीति । ननु न पदस्येति वर्तते, विभक्त्यन्तं च पदम्, तत्रान्तरेणापि सर्वग्रहणं विभक्त्यन्तस्य भविष्यति ? इत्यत आह - यत्रापीति । भवेदेवं यत्र विभक्त्यन्तं पदम्, यत्र तु विभक्तौ पदं तत्र युष्मदस्मदोरेव प्रसङ्ग इत्यर्थः । ग्रामोवां दीयत इति । चतुर्थोद्विवचने,'स्वादिषु' इति पूर्वं पदं भवति ॥