8-1-17 पदात् पदस्य
पदादित्ययमधिकारः प्राक् <<कुत्सने च सुप्यगोत्रादौ>> ८.१.६९ इत्येतस्मात्। यदित ऊर्ध्वमनुक्रमिष्यामः पदादित्येवं तद् वेदितव्यम्। वक्ष्यति — <<आमन्त्रितस्य च>> ८.१.१९। आमन्त्रितस्य पदात् परस्यानुदात्तादेशो भवतीति। पचसि दे॒व॒द॒त्त॒। पदादिति किम् ? देव॑दत्त पचसि॥
प्राक् कुत्सने च सुप्यगोत्रादावित्येतस्मादिति । यदि त्वत्र पदादित्येतदनुवर्तेत, यत्पचति पूतीत्यत्रैव तिङ्न्तस्य निघातः स्यात्, न तु पचति पूतीत्यत्र ॥