द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु

8-1-15 द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु सर्वस्य द्वे कर्मधारयवत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वन्द्वमिति द्विशब्दस्य द्विर्वचनम्, पूर्वपदस्याम्भावः, अत्वं चोत्तरपदस्य निपात्यते रहस्य मर्यादावचन व्युत्क्रमण यज्ञपात्रप्रयोग अभिव्यक्ति इत्येतेष्वर्थेषु। तत्र रहस्यं द्वन्द्वशब्दवाच्यम्, इतरे विषयभूताः। द्वन्द्वं मन्त्रयन्ते। मर्यादावचने — मर्यादा स्थित्यनतिक्रमः। आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति। माता पुत्रेण मिथुनं गच्छति, पौत्रेण, तत्पुत्रेणापीति मर्यादार्थः। व्युत्क्रमणे — द्वन्द्वं व्युत्क्रान्ताः। व्युत्क्रमणं भेदः, पृथगवस्थानम्। द्विवर्गसंबन्धेन पृथगवस्थिता द्वन्द्वं व्युत्क्रान्ता इत्युच्यन्ते। यज्ञपात्रप्रयोगे — द्वन्द्वं न्यञ्चि यज्ञपात्राणि प्रयुनक्ति धीरः। अभिव्यक्तौ — द्वन्द्वं नारदपर्वतौ। द्वन्द्वं संकर्षणवासुदेवौ। द्वावप्यभिव्यक्तौ साहचर्येणेत्यर्थः। अन्यत्रापि द्वन्द्वमित्येतद् दृश्यते, तदर्थं योगविभागः कर्तव्यः — द्वन्द्वं युद्धं वर्तते, द्वन्द्वानि सहते धीरः,<<चार्थे द्वन्द्वः>> २.२.२९ इति॥

Siddhanta Kaumudi

Up

द्विशब्दस्य द्विर्वचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापि मर्यादीकृत्य । व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि पयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वमिष्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण- यज्ञपात्रप्रयोगाभिव्यक्तिषु>> - द्वन्द्वं रहस्य । पूर्वपदस्येति । द्वौ द्वाविति द्वित्वे कर्मधारयत्त्वात्सुब्लुकि समुदायात्पुनः सुपि पूर्वपदावयवस्य इकारस्यअ॑मिति मकारान्तादेश इत्यर्थः । अत्वमिति । उत्तरपदस्य अकारोऽन्तादेश इत्यर्थः । न च त्यदाद्यत्वमुत्तरपदान्तस्य सिद्धमिति वाच्यं, संज्ञात्वात्तदप्राप्तेरित्याहुः । नपुंसकत्वं चेति । चकारोऽनुक्तसमुच्चये । कृत्तद्वित्वस्य नपुंसकत्वं द्विवचनाऽभावश्चेत्यर्थः । आचतुरं हीति । आङभिविधौ ।आङ्भर्यादे॑त्यव्ययीभावः । शरत्प्रभृतित्वाट्टच् । चतुर्थान्तमिति फलितोऽर्थः । पशवः स्वप्रभृति चतुर्थपर्यन्तं द्वन्द्वं मिथुनीयन्तीत्यन्वयः । मिथनशब्देन मैथुनं विवक्षितम् । मिथुनस्य कर्म मैथुनम् । तदिच्छतीत्यर्थे 'सुप आत्मनः' इति क्यच् । फलितमर्थमाह — मिथुन गच्छतीति । मिथुनत्वं प्राप्नोतीत्यर्थः । मिथुनायन्ते इति क्यङ्पाठस्तु प्रामादिकः मर्यादीकृत्येति । स्वप्रभृति चतुरोऽभिव्याप्येत्यर्थः । अत्यन्तसहचरितत्वेन लोकविज्ञानमभिव्यक्तिरिति भाष्याल्लभ्यते । तदाह — सहचर्येणेत्यर्थ इति । अत्रद्वन्द्वं न्यञ्ची॑त्यत्र वीप्सायां द्वित्वम्, अन्यत्र स्वार्थे इति बोध्यम् । अन्यत्रापीति । 'द्वन्द्व#आनि सहते' इत्यादावित्यर्थः । शीतमुष्णं च एकं द्वन्द्वम् । सुखं दुःखं चापरम् । क्षुत्तृष्णाचान्यत् । इह स्वार्थे द्वन्द्वः । अम्भावादि पूर्ववत् । 'चार्थे द्वन्द्वः' इति निपातनादन्यत्रापीति सिद्धम् ।* इति द्विरुक्तप्रकरणम् ।इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्यश्रीशाहजी तुक्वोजी भोसल॑ चोलमहीमिहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्यणा पञ्चपुरुषीपोष्येण, बाल्य एव तद्दयानिर्वर्तितताऽपरिमिताग्निविजृम्भितवाजपेयसर्वपृष्ठाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिर्मुखेन, पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविओआवाजपेययाजितो लब्धविद्यावैशद्येन, अध्वरमीमांसाकुतूहलवृत्तिनिर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण, बौधायनापस्तम्बसत्याषाढभावद्वाजकात्यायनाआलायनद्राह्रायणादिकल्पसूत्रतद्भाष्यपारीणमहादेवववाजपेययाजिसुतेन, अन्नुपूर्णाम्बागर्भजातेन, वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पूर्वार्धम् ।*****अथ एकशेषप्रकरणम्***अथैकशेषो निरूप्यते । तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणमारभते — अथैकशेष इति । 'निरूप्यते' इति शेषः । तत्रैकशेषसूत्राणि व्याचिख्यासुः पूर्वं व्याख्यातमपि सूत्रं सन्दर्भशुद्धये आह — सरूपाणामिति । तदुदाहरणमपि स्मारयति — रामौ रामा इति । विरुपाणामिति ।सरूपाणा॑मित्यनेन सूत्रेणार्थ भेदेऽपि शब्दैकरूप्ये एकशेष उक्तः, एकार्थकत्वे विरूपाणामप्येकशेषो वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थैक्यादन्यतरः शिष्यत इति भावः ।

Padamanjari

Up

पूपवदस्येति । द्वि औ द्वि स्थिते कर्मधारयवद्भावात्सुब्लुकि कृते पूर्वपदावयवभूतस्येकारस्याम्भावः, उतरपदावयवस्य चात्वं निपात्यते, चकारान्नपुंसकत्वम्, क्वचिदेकवद्भावश्च निपात्यते, समासान्तोदातत्वं तु कर्मधारयवद्भावाद् भवति । तत्र रहस्यं द्वन्द्वशब्दवाच्यमिति । द्वाभ्यां निर्वृते रहस्ये योगरूढिरेपेत्यर्थः । द्वन्द्वं मन्त्रयन्त इति । द्वौ द्वौ भूत्वा मन्त्रयन्त इत्यर्थः । एवं हि तद्रहस्यं भवति । आचतुरमिति । आङ्भिविधौ । चतुर्णां पूरणे चतुः शब्दो द्रष्टव्यः, आचतुर्थादित्यर्थः । द्वन्द्वं मिथुनीयन्तीति । मिथुनशब्देन मैथुं तत्कर्म लक्ष्यते, तदिच्छतीति क्यच्, प्रायेण मिथुनायन्त इति क्यङ्न्तं पठ।ल्ते, तत्रोपमानार्थो मृग्यः । माता पुत्रेणेत्यादिना मर्यादावचने व्यनक्ति । तत्पुत्रेणापीति । एतावदेव पशूनामायुः । द्वन्द्वं व्युत्क्रान्ता इति । द्वौ पक्षौ भूत्वा पृथगवस्थिता इत्यर्थः । स्वार्थे द्विर्वचनमेकवद्भावश्चेति । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति उ सादयति, न्यञ्चिउन्यग्भूतानि, अवाग्बिलानि । द्वन्द्वं स्}यश्च कपालानि चेति द्वेद्वे इत्यर्थः । अत्र वीप्सायां द्विर्वचनम्, अम्भावादि, एकवद्भावश्च । द्वावभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्र स्वार्थे द्विर्वचनमेकवद्भावादिकं सर्वं निपात्यते । द्वन्द्वं युद्धमिति । अत्रापि वीप्सायां द्विर्वचनम् । द्वन्द्वानि सहन्त इति । शीतमुष्णं चेत्येकं द्वन्द्वम्, सुखदुः खे चापरम्, क्षुतृष्णे चापरम् । अत्रापि स्वार्थे द्विर्वचनमेकवद्भावादि, तत्रैकशेषवशाद्वहुत्वम् । चार्थे द्वन्द्व इति । द्वे चार्थनिर्द्दिष्टे पदे समस्ते द्वन्द्वः । अत्रापि स्वार्थे द्विर्वचनादि, पुंस्त्वं च ॥