8-1-14 यथास्वे यथायथम् सर्वस्य द्वे कर्मधारयवत्
index: 8.1.14 sutra: यथास्वे यथायथम्
यो य आत्मा, यद् यदात्मीयम्, तत्तद्, यथास्वम्, तस्मिन् यथायथम् इति निपात्यते। यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते। ज्ञाताः सर्वे पदार्थाः यथायथम्। यथास्वभावम् इत्यर्थः। सर्वेषां तु यथायथं यथात्मीयम् इत्यर्थः।
index: 8.1.14 sutra: यथास्वे यथायथम्
यथास्वम् इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ।
index: 8.1.14 sutra: यथास्वे यथायथम्
यथास्वे यथायथम् - यथास्वे यथायथम् । वीप्सायामिति । कार्त्स्न्येसंबन्धो वीप्सेत्युक्तम् । स्वशब्दार्थगतकार्त्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाऽव्ययीभाव इत्यर्थः । कृत्स्न श्चासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची । इह तु आत्मात्मीयवाच्येव गृह्रते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रहवाक्यस्य फलितमर्थमाह — द्वे इति । 'स्त' इति शेषः । निपातनादिति भावः । न चनित्यवीप्सयो॑रित्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्क्यम्, द्वित्वविषयस्य शब्दस्य लक्षणया कार्त्स्न्यविशिष्टे वृत्तावेव वीप्सायां द्विर्वचनविधानात् । अन्यथा 'सर्वो घटः' इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्लीबत्वमिति ।यथा-यथा इति समुदायस्ये॑ति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृत्तद्वित्वस्य नपुंसकह्रस्वत्वं च फलितम् । यथायथं ज्ञातेति । अत्रज्ञाते॑ति तृन्नन्तम् ।तद्योगेन लोके॑ति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तुयथायथस्य ज्ञाते॑त्येव ।
index: 8.1.14 sutra: यथास्वे यथायथम्
'यथास्वे' इति'यथा' सादृश्येऽ इति वीप्सायमव्ययीभावः । स्वशब्द आत्मवचनः, आत्मीयवचनो वेति दर्शयति । यो य आत्मेति । ज्ञातिधनवचनस्य तु ग्रहणं न भवति; द्विर्वचनस्य तत्रासमर्थत्वात् ॥