अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्

8-1-13 अकृच्छ्रे प्रियसुखयोः अन्यतरस्याम् सर्वस्य द्वे कर्मधारयवत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रिय सुख इत्येतयोरन्यतरस्यां द्वे भवतोऽकृच्छे्र द्योत्ये। कृच्छं्र दुःखम्, तदभावोऽकृच्छ्रम्। प्रियप्रियेण ददाति। सुखसुखेन ददाति। प्रियेण ददाति। सुखेन ददाति। अखिद्यमानो ददातीत्यर्थः। अकृच्छ्र इति किम् ? प्रियः पुत्रः। सुखो रथः॥

Siddhanta Kaumudi

Up

प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्>> - अकृच्छ्रे । कृच्छ्रं-कष्टम् । अकृच्छ्रम्-अनायासः । तस्मिन्वर्तमानयोः प्रिय सुख इत्यनयोद्र्वे वा स्तः । कर्मधारयवद्भावादिति ।कर्मधारयवदुत्तरेषु॑ इत्यधिकारादिति भावः ।समासवच्च बहुल॑मित्यतः समासवदित्यनुवृत्तिस्तु न शङ्क्या, तस्य वार्तिकस्थत्वात्, एवं चप्रियेणे॑त्यस्यसुखेने॑त्यस्य च द्वित्वे सति कर्मधारयवत्त्वात्सुपोस्तृतीयैकवचनयोर्लुकि पुनः समुदायात्तृतीयैकवचनमिति फलितम् ।

Padamanjari

Up

प्रियप्रियेणेति तृतीयैकवचनान्तस्य द्विर्वचने कर्मधारयवद्भावात् सुब्लुकि पुनस्तदेव वचनम् । अत्यन्तदयितमपि वस्त्वनायासेन ददातीत्यर्थः ॥