8-1-12 प्रकारे गुणवचनस्य सर्वस्य द्वे कर्मधारयवत्
index: 8.1.12 sutra: प्रकारे गुणवचनस्य
प्रकारो भेदः सादृश्यं च। तदिह सादृश्यं प्रकारो गृह्यते। प्रकारे वर्तमानस्य गुणवचनस्य द्वे भवतः। पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। अपरिपूर्णगुणः इत्यर्थः। परिपूर्णगुणेन न्यूनगुणस्य उपमाने सत्येवं प्रयुज्यते। जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यते। पटुजातीयः, मृदुजातीयः इत्यपि हि भवति। तत् कथम्? वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोः शेषो विजायते। प्रकारे इति किम्? पटुर्देवदत्तः। मुणवचनस्य इति किम्? अग्निर्माणवकः। गौर्वाहीकः। यद्यप्यत्र अग्निशब्दो गोशब्दश्च मुख्यार्थसम्बन्धादवभृतभेदं तैक्ष्ण्यजाड्यादिकमर्थान्तरे गुनविशेषम् एव प्रतिपादयितुं प्रवृत्तः, तथापि सर्वदा गुणवचनो न भवतीति न द्विरुच्यते। आनुपूर्व्ये द्वे भवत इति वक्तव्यम्। मूले मूले स्थूलाः। अग्रेऽग्रे सूक्ष्माः। ज्येष्ठं ज्येष्ठं प्रवेशय। स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवत इति वक्तव्यम्। अस्मात् कार्षापणादिह भवद्भ्याम् माषं माषं देहि। स्वार्थे एतद् द्विर्वचनम्, न वीप्सायाम्। अत्र हि द्वावेव माषौ दीयेते, न सर्वे कार्षापणसम्बन्धिनो माषाः, तेन वीप्सा न विद्यते। अवधार्यमाणे इति किम्? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन् वा माषान् देहि। अनेकस्मिनिति किम्? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि। चापले द्वे भवत इति वक्तव्यम्। सम्भ्रमेण प्रवृत्तिश्चापलम्। अहिरहिः, वुध्यस्व बुध्यस्व। नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ, किं तर्हि, यावद्भिः शब्दैः सोऽथोऽवगम्यते तावन्तः प्रयोक्तव्याः। अहिरहिरहिः, बुध्यस्व बुध्यस्व बुध्यस्व इति। क्रियासमभिहारे द्वे भवत इति वक्तव्यम्। स भवान् लुनीहि लुनीहि इत्येव अयं लुनाति। आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्। भुक्त्वा भुक्त्वा व्रजति। भोजं भोजं व्रजति। नित्य इत्येव सिद्ध इति तत्र उक्तम्। डाचि द्वे भवत इति वक्तव्यम्। पटपटाकरोति। पटपटायते। अव्यक्तानुकरणे डाजन्तस्य द्विर्वचनम् इष्यते। इह न भवति, द्वितीयाकरोति, तृतीयाकरोति। तदर्थं केचित् डाचि बहुलम् इति पठन्ति। पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम्। पूर्वं पूर्वं पुष्प्यन्ति। प्रथमं प्रथमं पच्यन्ते। आतिशयिकोऽपि दृश्यते, पूर्वतरं पुष्प्यन्ति, प्रथमतरं पच्यन्ते इति। डतरडतमयोः समसम्प्रधारणयोः स्त्रीनिगदे भवे द्वे भवत इति वक्तव्यम्। उभाविमावाढ्यौ। कतरा कतरा अनयोराढ्यता। सर्व इमे आढ्याः। कतमा कतमा एषामाढ्यता। डतरडतमाभ्यामन्यत्र अपि हि दृश्यते। उभाविमाउ आढ्यौ। कीदृशी कीदृशि अनयोराढ्यता। तथा स्त्रीनिगदाद्भावातन्यत्र अपि हि दृश्यते, उभाविमावाढ्यौ, कतरः कतरोऽन्योर्विभवः इति। कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम्। यदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्य अन्यमन्यमिमे ब्राह्मणा भोजयन्ति, अन्योन्यमिमे ब्राह्मणा भोजयन्ति। अन्योन्यस्य ब्राह्मणा भोजयन्ति। इतरेतरं भोजयन्ति। इतरेतरस्य भोजयन्ति। स्त्रीनपुंसकयोरुत्तरपदस्य च अम्भावो वक्तव्यः। अन्योऽन्यामिमे ब्राह्मण्यौ भोजयतः। अन्योन्यं भोजयतः। इतरेतरां भोजयतः। इतरेतरं भोजयतः। अन्योन्यामिमे ब्राह्मणकुले भोजयतः। इतरामिमे ब्राह्मणकुले भोजयतः। इतरेतरमिमे ब्राह्मणकुले भोजयतः।
index: 8.1.12 sutra: प्रकारे गुणवचनस्य
सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । कर्मधारयवदुत्तरेषु- <{SK2146}> इत्यधिकारात् । तेन पूर्वभागस्य पुंवद्भावः 'समासस्य' <{SK3734}> इत्यन्तोदातत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः ॥<!आनुपूर्व्ये द्वे अाच्ये' !> (वार्तिकम्) ॥ मूले मूले स्थूलः ॥<!सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः !> (वार्तिकम्) ॥ सर्प सर्व, बुध्यस्व बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वार्तिकम्) लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' <{SK2140}> इति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समु्चित्य द्योतकतां लब्धुं वा ॥<!कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये, समासवच्च बहुलम् !> (वार्तिकम्) ॥ बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य तु नित्यम् ॥<!असमासवद्भावे पूर्वपदस्थस्य सुपं सुर्वक्तव्यः !> (वार्तिकम्) । अन्योऽन्यं विप्रा नमन्ति अन्योऽन्यौ । अन्योऽन्यान् । अन्योऽन्येन कृतम् । अन्योऽन्यस्मै दत्तमित्यादि । 'अन्योऽन्येषां पुष्करैरामृशन्तः' इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि ॥<!स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः !> (वार्तिकम्) ॥ अन्योन्याम्-अन्योन्यम् । परस्पराम्-परस्परम् । इतरेतराम्-इतरेतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः । अत्र केचित् । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामादेशमाहुः । दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्त्रयम्॥ तथाहि । अन्योऽन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्तः । न च ।<!सर्वनाम्नो वृत्तिमात्रे !> (वार्तिकम्) ॥ इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । न च द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः प्रैक्षत कातराक्षी सा सा' इत्यादावतिप्रसङ्गात् । 'अन्योऽन्यमितरेतरम्' इत्यत्र च 'अद्ड्डतरादिभ्यः-' <{SK315}> इत्यद्ड् प्राप्तः । 'अन्योऽन्यसंसक्तमहस्त्रियामम्' 'अन्योऽन्याश्रयः', 'परस्पराक्षिसादृश्यम्' 'अपरस्परैः' इत्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणम् 'स्त्रियाम्' <{SK453}> इति सूत्रे 'अन्योऽन्यसंश्रयं त्वेतद्' इति भाष्यं चात्र प्रमाणमिति ।
index: 8.1.12 sutra: प्रकारे गुणवचनस्य
प्रकारे गुणवचनस्य - प्रकारे गुणवचनस्य । प्रकारशब्दः सादृश्ये वर्तते, व्याख्यानादित्यभिप्रेत्याह — सादृश्ये द्योत्य इति । गुणवचनशब्देनआकडारा॑दिति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्रन्त इतिवोतो गुणवचना॑दित्यादौ प्रपञ्चितमिदम् । तेनेति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति ।पुंवकर्मधारये॑त्यनेने॑ति शेषः । पटुपट्वीति । पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात्पुवत्कर्मधारये॑ति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपिस्त्रियाः पुंव॑दिति पुंवत्त्वादिदं सिद्धं, तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थंकर्मधारयव॑दिति वचनमिति भावः । पटुपटुरिति ।वोतो गुणवचना॑दिति ङीषभावे पुंसि च द्विर्वचने रूपम् । पटुसदृश इति । 'इत्यर्थ' इति शेषः । फलितमाह — ईषत्पटिरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति — गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसदृशमित्यर्थः । ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूर्व्ये इति । अत्र वार्तिकेकर्मधारयव॑दिति न सम्बध्यते, तदुदाहरणे भाष्ये सुब्लोपाऽदर्शनादित्यभिप्रेत्योदाहरति — मूलेमूले इति । पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति । यावत् । संभ्रमेणेति । वार्तिकमिदम् । संभ्रमः=भयादिकृता त्वरा, तेन प्रवृत्तौ गम्यमानायां यथेष्टम्िच्छानुसारेण अनेकधाशब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेकधेत्युक्तेद्र्वे इति निवर्तते ।यथेष्ट॑मित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः । बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः । एतच्च भाष्ये स्पष्टम् । अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात् ।क्रियासमभिहारे चेति । वार्तिकमिदम् । 'द्वे स्त' इति शेषः । पौनःपुन्यं भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम् ।क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमो॑रिति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति — लुनीहिलुनीहीत्येवायं लुनातीति । 'लूञ् छेदने' अस्मात्क्रियासमभिहारे लोट्, लोटो हिस्वौ॑ इति लोट् । तस्य हीत्यादेशः । श्नाविकरणः ।लुनीही॑त्यस्य अनेन द्विर्वचनम् ।यथाविध्यनुप्रयोगः पूर्वस्मि॑न्नित्यनुप्रयोगः । तस्माल्लडादयः । अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः । एककर्तृकं लवनमनुप्रयोगस्याऽर्थः । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयतीत्यादि मूल एव लकारार्थप्रक्रियायां स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः । नित्येति ।नित्यवीप्सयो॑रिति पौनः पुन्ये द्विर्वचने सिद्धेऽपि भृशार्थे द्विर्वचनार्थमिदं वार्तिकमित्यर्थः । नन्बस्य भृशार्थ एव द्विर्वचनफलकत्वेभृशे चे॑त्येव सिद्धे 'क्रियासमभिहारे' इति व्यर्थमित्यत आह — पौनःपुन्येऽपीति । लुनीहि — लुनीहीत्यत्र पौनः पुन्ये लोटो द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा — पौनःपुन्येऽपीति । लुनीहि — लुनीहीत्यत्र पौनःपुन्ये द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोद्विर्वचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च 'धातोरेकाचः' इति पौनः पुन्ये यङन्ते 'पापच्यते' इत्यादौ न द्विर्वचनमित्यन्यत्र विस्तरः । कर्मव्यतिहारे इति । क्रिया विनिमयः=कर्मव्यतिहारः, तस्मिन्गम्ये सर्वनाम्नो द्वे स्तः । ते च द्विरुक्ते पदे बहुलं समासवदित्यर्थः । अत्रबहुल॑मिति समासवदित्यत्रैवान्वेति । द्विर्वचनं तु नित्यमेव । अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम्, इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समासवत्त्वरहितमेव, इतरशब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते । तथापरस्परोपपदाच्चे॑ति वार्तिकप्रयोगात्परशब्दस्यापि समासवत्त्वाऽभावो गम्यत इति भावः । एवंच क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यद्विर्वचनम् । द्विरुक्तयोस्तु समासवत्त्वं बहुलम् । इतरशब्दस्य तु तदुभयमपि नित्यम् । एतत्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं द्वित्वं बहुलग्रहणादिति स्थितिः । असमासवद्भावे इति । इदमन्यपरशब्दयोरेव, इतरशब्दस्य समावत्त्वस्यैवोक्तत्वात् । सुपः सुरिति । सु॑बिति प्रत्याहारः । सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्र विषयमिति केचित् । तदेतद्भाष्यविरुद्धं, भाष्ये द्वितीयादिविभक्तेरूदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तीरुदाहरति — अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यमन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः । प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतन्न कविसंमतमित्याह — अन्योन्येषामित्यादि, माघ इत्यन्तम् ।परस्पर॑मित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्क्य आह — कस्कादित्वादित्यादि । इतरेतरमिति । इतरः इतरावित्यादीनां द्वित्वे समासवत्त्वात्, सुपोर्लुकि समुदायात्पुनः सुबुत्पत्तिरिति भावः । स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोर्विद्यमानानामन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेरामित्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि । अन्योन्याम्, अन्योन्यं वा इमे ब्राआहृण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राआहृण्यौ कुले वा भोजयतः । इतरेतराम्, इतरेतरं वा इमे ब्राआहृण्यौ कुले वा भोजयत इत्यन्वयः । तत्रअन्या॑मित्यस्य द्वित्वे 'दलद्वये टाबभाव' इति वक्ष्यमाणतया पुंवत्त्वाट्टापो निवृत्तौ समासवत्त्वाऽभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वेअतो रोरप्लुता॑दित्युत्त्वे आद्गुणे उत्तरपदस्थविभक्तेरनेन आम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तु पुंवत्तद्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंलिङ्गवदेव अन्योन्यमिति रूपम् । इयं ब्राआहृणी अन्यां ब्राआहृणीं भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राआहृण्यौ भोजयत इत्यर्थः । इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अन्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः । अत्राऽन्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तुक्लीबे चाद्ड्विरहः स्वमो॑रिति वक्ष्यमाणतया पुंवत्त्वादद्डादेशाऽभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलद्वयेऽपि पुंवत्त्वाट्टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम् । आण्भावविरहे तु द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वे तु परमित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्पमिति रूपम् । आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाटापो निवृत्तौ उत्तरपदस्थविभक्तेराम्भावे समासवत्त्वात्पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम् । आम्भावविरहे तु इतरेतरमिति रूपम् । नपुंसकस्य तु इतरच्छब्स्य द्वित्वे पुंवत्त्वादद्डादेशविरहे पूर्वपदस्थविभक्तेर्लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम् । अत्र भाष्यादौ द्वितीयाविभक्त्यन्तस्योदाहरणादितरविभक्तिषु आम्भावो न भवतीति प्राचीनमतमाह — अत्र केचितदिति । तेनेति । द्वितीयेतरविभक्तिषु आम्भावविरहेणेत्यर्थः । पुंवदेवेति । आम्भावविरहे सति बहुमग्रहणात्पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात्प्रथमैकवचस्य इदं पुंवदेव रूपमित्यर्थः । सिद्धान्तमाह — अन्ये त्विति । दिङ्मात्रत्वादिति । दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । द्वलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्रयम्॥अथाऽत्र बहुलग्रहणानुवृत्तेः प्रयोजनकथनपरप्राचीनश्लोकमाह — दलद्वये इति । स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्जयोः पुंवत्त्वाट्टाब्निवृत्तिरित्यर्थः । यद्यपि 'इतरेतर' मित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धस्तथाप्युत्तरखण्डे टाबभावार्थं बाहुलकाश्रयणमिति भावः । क्लीबे इति ।अन्योन्य॑मित्यादावद्डादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथाहीति । यथेदं स्पष्टं भवति, तथा उदाहृत्य प्रदश्र्यत इत्यर्थः । ननु पूर्वदलेसर्वनाम्नो वृत्तिमात्र॑ इति पुंवत्त्वस्याऽत्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह — अन्यपरयोरिति ।समासवच्च बहुल॑मिति समासवत्त्वमितरशब्दमात्रविषयं, न त्वन्यपरहशब्दविषयमिति प्रागुक्तमित्यर्थः । ननु मास्तु समासवत्त्वं, तथापिसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वं दुर्वारम्, द्विर्वचनस्य वृत्तित्वादित्याशङ्क्य निराकरोति — नच द्विर्वचनमेव वृत्तिरिति ।कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः॑ इति परिगणनादिति भावः । द्विर्वचनस्य वृत्त्यन्तर्भ#आवे बाधकमाह — यां या मिति । द्विर्वचनस्य वृत्त्यन्तर्भावेयांयां प्रियः प्रैक्षत कातराक्षी सासा ह्यिया नम्रमुखी बभूवे॑त्यत्र श्लोके यांयामित्यत्र सासेत्यत्र चसर्वनाम्नो वृत्तिमात्रे॑ इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः । क्लीबे चाद्ड्विरहः॑ इत्यस्योदाहरति — अन्योन्यमिति । ननुसमासे सोरलुक् चे॑ति कथम्, अन्यपरशब्दयोः समासवत्त्वाऽभावादित्याशङ्क्य कृत्तद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति — अन्योन्यसंस,क्तमिति । अन्योऽन्येन संसक्तमिति तृतीयासमासः । अहश्च त्रियामा चेति समाहारद्वन्द्वः । अहश्च रात्रिश्च अन्योन्येन संयुर्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः । परस्पराक्षिसादृश्यमिति । अक्ष्णा सादृस्यमक्षिसादृश्यम् । परस्परस्याऽक्षिरसादृश्यमिति विग्रहः । अपरस्परैरिति । न परस्परे अपरस्परे,तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य सोर्लुक् प्राप्त इत्यर्थः । सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत्समाधेयमित्यत्र किं प्रमाणमित्यत आह — प्रकृतवार्तिकेति ।स्त्रीनपुंसकयो॑रिति प्रकृतवार्तिकेअन्योन्यमिमे ब्राआहृण्य॑विति, 'इतरेतरमिमे कुले' इति चोदाहरणात्दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमो॑रिति विज्ञायते ।स्त्रिया॑मिति सूत्रेअन्योन्यसंश्रयं त्वेत॑दिति बाष्यप्रयोगात्समासे सोरलुगिति विज्ञायत इत्यर्थः ।
index: 8.1.12 sutra: प्रकारे गुणवचनस्य
प्रकारो भेदः सादृश्यं चेति । उभ्यत्रापि प्रकारशब्दस्य दृष्टत्वात् । भेदे तावत् - बहुभिः प्रकारैर्भुङ्क्ते, बहुभिर्भेदैः, विशेषैरिति गम्यते; सादृश्ये - ब्राह्मणप्रकारोऽयं माणवकः, ब्राह्मणसदृश इति गम्यते । तदिहेति । तदिति वाक्योपन्यासे । अव्ययं वा सप्तम्यर्थवृत्ति, तत्रेत्यर्तः । सादृश्यं प्रकारो गृह्यत इति । द्विरुक्तात् तस्यैव प्रतीतेः । अत्र चाभिदानस्वाभाव्यं हेतुः । प्रकारे वर्तमानस्येति । द्विर्वचनप्रवृत्तिद्वारेण तद्द्योतनातत्र वृत्तिः । अपरिपूर्णगुण इत्यर्थ इति । कथमेतत् ? इत्याह - परिपूर्णगुणेनेति । यस्य पूर्णं पाटवम्, यः पटुअकार्याणि करोति, तेन यदा न्यूनपाटवमुपमीयते, तदा पुटुअपटुअरिति प्रयोगो भवति, तेनार्थादपरिपूर्णगुण इत्यर्थो भवति । जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यत इति । तद्विधौ द्विविधस्यापि प्रकारस्य ग्रहणं मन्यते । जयादित्यस्तु तत्राह -'सामान्यस्य भेदको विशेषः प्रकारः' इति । इष्टिश्चेयम्, अन्यथा ब्राह्मणजातीय इत्यादावगुणवचने, पटुअजातीय इत्यादौ गुणवचनेऽपि सादृश्यादन्यत्र भेदे चरितार्थस्य जातीयरो गुणवचनेषु सादृश्ये बाधः स्यात् । पटुअर्देअवदत इति । परिपूर्णगुण एवात्र पटुअशब्दो वर्तते, नतत्सादृश्यान्न्यूनगुणे । अग्निर्माणवक इति । अग्निशब्दो वह्नौ वृतः सोऽयमतिसादृश्यनिमितादभेदोपचारान्माणवके वर्तत इति द्रव्ये पूर्ववृतः सम्प्रत्यपि द्रव्यवचन इति गुणवचनो न भवति । एवं गौर्वाहीक इत्यत्र गोशब्दः सास्नादिमति वर्तित्वा वाहीके वर्तमानः । नन्वग्निशब्दोऽग्निगततैक्ष्ण्यं माणवके प्रतिपादयितुं प्रयुज्यत इति गुणवचन एव, तथा गोशब्दोऽपि सास्नादिमद्गतजाड।ल्प्रतिपादनाय वाहीके प्रयुज्यत इति गुणवचन एव ? इत्यत आह - यद्यप्यत्राग्निशब्द इति । अग्निशब्दो माणवके प्रयुज्यमानो यादृशमग्नेस्तैक्ष्ण्यं परश्वादिभ्यो व्यावृतं तदेव प्रतिपादयति, न तैक्ष्ण्यमात्रमिति, गोशब्दोऽपि यादृशं गवां जाड।ल्ं मनुष्येभ्यो व्यावृतं तदेव प्रतिपादयति, आश्रयविशेषसम्बन्धाद्धि तैक्ष्ण्यजाड।लदिकं भिद्यते, तदेतदाह - मुख्यार्थसम्बन्धादवधृतभेदं तैक्ष्णजाड।लदिकमिति । शब्दान्तरसन्निधीमन्तरेण शब्दश्रवणमात्राद् योऽर्थः प्रतीयते स मुख्यः । विपरीतो गौण । अवधृतभेदम् - निश्चितभेदम् । आदिशब्देन पैङ्गल्यभारवहनादेर्ग्रहणम् । अर्थान्तरे, गौणे माणवके वाहीके च । सर्वदा गुणवचनो न भवतीति न द्विरुच्यत इति ।'प्रकारे वर्तमानस्य' इत्येव गुणवचनत्वे सिद्धे पुनर्गुणवचनग्रहणात् सर्वदा गुणवचनस्येत्याश्रीयते । न चायं सर्वदा गुमवचनः; प्राक् प्रकाराद् द्रव्यवचनत्वात् । अत्र केचित् -'गुणमुक्तवान् गुणवचनः' इति गुणोपसर्जनद्रव्यवचनस्य द्विर्वचनमिच्छन्ति । अन्ये तु गुणवचनस्य गुणिवचनस्य च अविशेषेणेच्छन्ति - शुक्लशुक्लं रूपम्, शुक्लशुक्लः पट इति ।'नवंनवं प्रीतिरहो करोति' इत्यत्र वीप्सायां द्विर्वचनम्, अनेन तु द्विर्वचने सुब्लोपप्रसङ्गः, यथा - नवनवावनवायुभिरादेधेऽ इति । मूलेमूले इति । एकस्य वस्तुनो वेणुदलादेरेकमेव मुख्यमग्रं मूलं च, इतरेषां तु भागानामापेक्षिको मूलाग्रव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे, किं तर्हि ? यथामूलमुपचीयते स्थौल्म्, यथाग्रं च सौक्ष्म्यमिति वीप्साया अत्रासम्भवः । इह'मूलेमूले पथि विटपिनाम्' इति वीप्सायामेव द्विर्वचनम् । स्वार्थ इति । अर्थान्तराभावप्रदर्शनार्थमिदमुक्तम् । अस्मार्त्कार्षाणादिति । अनेकमाषसमुदायःउकार्षापणम् । तत्र न सर्वे माषा दानक्रियया व्याप्यन्ते, किं तर्हि ? द्वावेवेति वीप्साया अभावः । ननु यथा द्वावेव माषौ निर्ज्ञातौ दानक्रियया व्याप्येते, तदा माषंमाषं देहि - इति वीप्सायां द्विर्वचनं भवति; एवमनेकमाषसमुदायादपि कार्षापणाद् द्वयोरेवास्ति दानक्रियाव्याप्तिः ? मैवम्, तत्र हि सन्निहितस्यार्थस्य न कस्यचिद् वर्जनमस्ति; इह तु वर्जनमस्ति, यतो माषंमाषमसौ दत्वा शेषं पृच्छति - किमनेन क्रियतामिति । तदिदमुक्तम् - अत्र हीति । माषं देहि द्वौ माषौ देहि त्रीन्माषानिति । अनेन यथेच्छ्ंअ देहीति विवक्षया अवधारणाभावं दर्शयति । चापल इति प्रयोक्तृधर्मोऽयम्, तस्मिन् द्योत्ये सुबन्तस्य तिङ्न्तस्य च सर्वस्य वाक्यगतस्य पदस्य द्विर्वचनं नावश्यमिति नेदं शास्त्रीयं द्विर्वचनम्, किं तर्हि ? परप्रत्यायनायानेकस्य स्वतन्त्रपदस्य प्रयोग इत्यर्थः । एवं च कृत्वा आम्रेडितानुदातत्वाभावाद्यथाप्राप्तः स्वरो भवति । क्रियासमभिहार इति । लोडन्तस्येवेदं द्विर्वचनम्, न यङ्न्तस्य; लोटः समुच्चयेऽपि विधानात् क्रियासमभिहाराभिव्यक्तौ केवलस्य सामर्थ्याभावात् । यङ् तु क्रियासमभिहारविषय एवेति तद्द्योतने स्वयं सामर्थ्यान्नापेक्षते द्विर्वचनम् । आभीक्ष्ण्य इति । पूर्वेण वाक्येन क्रियासमभिहारसंशब्दनेन यो विहितस्तदन्तस्यैव द्विर्वचनमिति शङ्कमानं प्रत्ययस्य वाक्यस्योपन्यासः । नित्य इत्येव सिद्धमिति तत्रोक्तमिति ।'नित्यवीप्सयोः' इत्यत्र हि'क्त्वाणमुलोर्लोटश्च द्विर्वचनसापेक्षाणामेव पौनः पुन्यप्रकाशने शक्तिः' इत्युक्तम् । अन्ये त्वाहुः -'पुनः पुनः क्रियाया उत्पादनमाभीक्ष्ण्यम् । तथा हि - भुक्त्वाभुक्त्वा व्रजतीत्युक्ते सत्यपि क्रियाया विच्छेदे पुनः पुनर्भुङ्क्ते पुनः पुनर्व्रजतीति क्रियावृत्तिः प्रतीयते, नित्यता तु क्रियाया अविच्छेदः, यता जीवतिजीवतीत्युक्ते जीवत्येवायमिति प्रतीयते, न त्वसौ जीवित्वा म्रियते मृत्वा च जीवतीति, जीवनमेव त्वविच्छिन्नं प्रतीयते । तस्मादाभीक्ष्ण्यं नित्यमिति भिन्नावेतावर्थौ' इति । अपर आह - भुक्त्वा व्रजतीत्यादौ क्त्वाणमुलन्तस्य तिङ्न्तस्य च द्विर्वचने प्राप्ते आभीक्ष्ण्यसंशब्दनेन यो विहितस्तदन्तस्य यथा स्यात्, तिङ्न्तस्य मा भूदिति नियमार्थमिदमिति । डाचीति । विषयसप्तमीयम्, तेनानुत्पन्न एव डाच्यकृतटिलोपस्य पटदित्यादेर्द्विर्वचनम्, ततः ठव्यक्तानुकारणात्ऽ इति डाचि टिलोपः,'नित्यमाम्रेडिते'डाचि इति पररूपत्वम् । अपर आह - इदमेवाच्छब्दस्य पररूपविधानं लिङ्गम् -'डाचि' इति परसप्तम्यामपि टिलोपात्पूर्वं द्विर्वचनं भवतीत्यस्यार्थस्येति, तदसत; पतदित्यादौ टिलोपादुतरकालमप्यच्छब्दस्य सम्भवात् । द्वितीया करोतीति ।'कृञो द्वितीया' इत्यादिना डाच् । ततर्हि डाचि द्विर्वचनं वक्तव्यम् ? न वक्तव्यम्; आचार्यप्रवृत्तिर्ज्ञापयति -'डाच्यव्यक्तानुकरणस्य द्विर्चनं भवतीति, यदयम्'नित्यमाम्रेडिते डाचि' इति पररूपत्वं शास्ति । पूर्वप्रथमयोरिति । पूर्व, प्रथम - इत्येतयोर्द्विर्वचनं भवति, क्व ? अर्थातिशयविवक्षायाम् । अनयोर्यो' र्थस्तस्यातिशये विवक्षिते । आतिशायिको' पि दृश्यत इति । द्विर्वचनेन बाधे प्राप्ते वचनम् । अतिशयशब्दो' नुशतिकादिषु द्रष्टव्यः । केचितु अर्थबेदादातिशायिकस्याबाध्यत्वमाहुः । तथा हि -'पूर्वतरं भुङ्क्ते' इत्युक्ते किमात्मसाध्यक्रियान्तरापेक्षं भोजनस्य पूर्वत्वम् ? अथ भोक्त्रान्तरसाध्यभोजनक्रियापेक्षम् ? इति सन्देहो भवति । एवं पूर्वतरं पुष्प्यतीत्युक्तेऽयमर्थो गम्यते । न तावदेष किसलयितो यावदेष पुष्प्यतीति । पूर्वंपूर्वं । पुष्प्यतीत्यस्मात्वन्येभ्यः पुष्पितृभ्योऽतिशयेन पूर्व पुष्प्यतीत्यर्थः प्रतीयते । डतरडतमयोरिति । डतरडतमान्तस्य द्वे भवतः, समेनाढ।ल्त्वादिना धर्मेण सम्प्रधारणायां विषये । स्त्रीनिगदे भाव इति । भावःउभूतिः, सम्पतुआढ।ल्ता, निगद्यत इति निगदः,'नौ गद' इत्यादिना कर्मण्यप् । स्त्रीशब्देन स्त्रीलिङ्गः शब्दोऽविधीयते, स्त्रिया निगदः, कर्तरि षष्ठयाः समासः । स्त्रीलिङ्गशब्दाभिधेयायां भूतौ वर्तमानस्येत्यर्थः । कतराकतरा अनयोराढ।ल्तेति । किं साधनसम्पत्कृता ? उत भाग्यकृता ? इति प्रश्नार्थः । कर्मव्यतिहार इति । क्रियाव्यतिहारे इत्यर्थः । तत्र द्विर्वचनं नित्यम्, समासवद्भावस्तु बहुलम् । तत्रान्योऽन्यशब्दे समासवद्भावाभावात्सुब्लुक्, समासान्तोदातत्वं च न भवति, आम्रेडितानुदातत्वं भवति । इतरेतरशब्दे तु नित्यः समासवद्भाव इति सुब्लुक्समासस्वरौ भवतः । अन्योऽन्यमिति । द्वितीयैकवचनान्तस्य द्विर्वचनम् । अन्योऽन्यस्येति । षष्ठ।लेकवचनान्तस्य । अन्योऽन्यसम्बन्धिनः पुत्रादीनित्यर्थः । स्त्रीनपुंसकयोरिति । उतरपदस्थाया विभक्तेराम्भावः; अन्यथाऽनेकालत्वात्स सर्वस्योतरपदस्य स्यात् । तत्र'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पूर्वोतरपदयोर्द्वयोरपि पुंवद्भावे कृते पक्षे आम्विधिः । अन्याशब्दस्य तु द्विर्वचने समासवद्भावाभावाद्वहुलवचनात्स्त्रियां टापो निवृत्तिः । नपुंसके च ठद्डुतरादिभ्यःऽ इत्यस्य निवृत्तिः । वार्तिकेषु'कर्मधारयवत्' इति न सम्बध्यत इति सुब्लुगादि न भवति ॥