कर्मधारयवत् उत्तरेषु

8-1-11 कर्मधारयवत् उत्तरेषु सर्वस्य द्वे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत् कार्यं भवतीत्येतद् वेदितव्यम्। कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि। सुब्लोपः — पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। पुंवद्भावः — पटुपट्वी। मृदुमृद्वी। कालककालिका। कोपधाया अपि हि कर्मधारयवद्भावात् <<पुंवत्कर्मधारय०>> ६.३.४२ इति पुंवद्भावो भवति। अन्तोदात्तत्वम् — प॒टु॒प॒टुः। प॒टु॒प॒ट्वी। समासान्तोदात्तत्वमनेनैव विधीयत इति परत्वादामे्रडितानुदात्तत्वं बाध्यते। अधिकारेणैव सिद्धे यदुत्तरेष्विति वचनं तद् विस्पष्टार्थम्॥

Siddhanta Kaumudi

Up

इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम् ॥<!प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कर्मधारयवत् उत्तरेषु>> - कर्मधारयवदुत्तरेषु ।कार्यं स्या॑दिति शेषः । कर्मधारयवत्त्वस्य फलमाह — प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमेकवचनम् । अन्तोदात्तत्वानीति ।अनुदात्तं चे॑त्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः ।

Padamanjari

Up

कोपधाया अपि कर्मधारयवद्भावात् पुंवद्भावो भवतीति । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावो विधीयते इति भावः । समासान्तोदातत्वमनेन विधीयत इति । कार्यातिदेशपक्षे इदमुक्तम् । शास्त्रातिदेशे तु यद्यप्याम्रेडितानुदातत्वमेव परम्, तथापि न तद्भवति; विरुद्धस्य स्वाश्रयस्याति देशेन निवर्तनात् ॥