7-4-95 अत् स्मृदॄत्वरप्रथम्रदस्तॄस्पृशाम् अभ्यासस्य अनग्लोपे
स्मृ दॄ त्वर प्रथ म्रद स्तॄ स्पश इत्येतेषामभ्यासस्य अतित्ययमादेशो भवति चङ्परे णौ परतः। स्मृ असस्मरत्। दॄ अददरत्। त्वर अतत्वरत्। प्रथ अपप्रथत्। म्रद अमम्रदत्। स्तॄ अतस्तरत्। स्पश अपस्पशत्। सन्वद्भावातित्वं प्राप्तमनेन बाध्यते। तपरकरणसामर्थ्यातति कृते <<दीर्घो लघोः>> 7.4.94 इत्येतदपि न भवति, अददरत्।
एषामभ्यासस्य अकारोऽन्तादेशः स्याच्चङ्परे णौ । इत्वापवादः । अपप्रथत् ।{$ {!1554 पृथ!} प्रक्षेपे$} । पर्थयति ॥
<<अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम्>> - अत्स्मृ । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । चङ्परे णाविति ।सन्वल्लघुनीत्यततश्चङ्परे इत्यनुवर्तते । चङ् परो यस्मादिति बहुव्रीहिः । अन्यपदार्थस्त्वर्ताण्णिरेवेति भावः । इत्त्वेति । 'सन्यतः' इति इत्त्वस्यापवाद इत्यर्थः । अपप्रथदिति । अत्र अत्त्वविधानादेव सन्वत्त्वविधावनेकहल्व्यवधानेऽपि लघुपरकत्वमिति विज्ञायते । अन्यथा येन नाव्यवधानन्यायादेकहल्व्यवधानस्यैवाश्रयादत्र सन्वत्त्वविरहादेव इत्त्वाऽप्रवृत्त्या किं तेन । संयोगे परे गुरुत्वान्नाऽभ्यासदीर्घः । पृथ प्रक्षेपे । ऋदुपधः । पर्थयतीति । णिचि लघूपधगुणः । रपरत्वम् ।
तपरकरणसार्थ्यादिति । स्थानिनो ह्रस्वत्वाद् भाव्यमानत्वेन सवर्णग्रहणाच्च नानेन दीर्घस्य प्रसङ्गः, अतो लक्षणान्तरेण प्राप्तं दीर्घत्वं तपरकरणेन व्यावर्त्यते ॥