रीगृदुपधस्य च

7-4-90 रीक् ऋदुपधस्य च अभ्यासस्य यङ्लुकोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋदुपधस्य अङ्गस्य योऽभ्यासः तस्य रीगागमो भवति यङ्यङ्लुकोः परतः। वरीवृत्यते। वरीवृतीति। वरीवृध्यते। वरीवृधीति। नरीनृत्यते। नरीनृतीति। रीगृत्वत इति वक्तव्यम्। इह अपि यथा स्यात्, वरीवृश्च्यते। वरीवृश्चीति। परीपृच्छ्यते। परीपृच्छीति।

Siddhanta Kaumudi

Up

ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते । क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीकॢप्यते ।<!रीगृत्वत इति वक्तव्यम् !> (वार्तिकम्) ॥ वरीवृश्च्यते । परीपृच्छ्यते ॥

Laghu Siddhanta Kaumudi

Up

ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः। वरीवृत्यते। वरीवृताञ्चक्रे। वरीवर्तिता॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ऋत्वत इति । येङ् पिरतो य ऋकारवान् तस्यैव ग्रहणम्, न तूपदेशे ऋत्वतः । तेन परीपृच्छयत इत्यादौ सम्प्रसारणे कृतेऽपि भवति ॥