7-4-89 ति च अभ्यासस्य यङ्लुकोः अतः
index: 7.4.89 sutra: ति च
तकारादौ प्रत्यये परतः चरफलोः अकारस्य उकारादेशो भवति चरणं चूर्तिः। ब्रह्मणः चूर्तिः। प्रफुल्तिः। प्रफुल्ताः सुमनसः। यङ्यङ्लुकोः, अभ्यासस्य इति च अनुवर्तमानमपि वचनसामर्थ्यादिह न अभिसम्बध्यते।
index: 7.4.89 sutra: ति च
चरफलोपत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् । उत्फुल्लसंफुल्लयोरुपसंख्यानम् ॥
index: 7.4.89 sutra: ति च
वचनसामर्थ्यादिति । यङ्लुकि पूर्वेणैव सिद्धत्वात् ॥