7-4-8 नित्यं छन्दसि णौ चङि उपधायाः उः ऋत्
छन्दसि विषये णौ चङि उपधाया ऋवर्णस्य स्थाने ऋकरादेशो भवति नित्यम्। अवीवृधत् पुरोडाशेन। अवीवृधताम्। अवीवृधन्।
छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधत् ॥