उत् परस्यातः

7-4-88 उत् परस्य अतः अभ्यासस्य यङ्लुकोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चरफलोः अभ्यासात् परस्य अतः उकारादेशो भवति यङ्यङ्लुकोः परतः। चञ्चूर्यते। चञ्चूरीति। पम्फुल्यते। पम्फुलीति। परस्य इति किम्? अभ्यासस्य मा भूत्। अतः इति किम्? अलोऽन्त्यस्य मा भूत्। उदिति तपरकरणं चञ्चूर्ति, पम्फुलीति इत्यत्र लघूपधगुणनिवृत्त्यर्थम्। दीर्घस्य असिद्धत्वातिह लभुत्वं न निवर्तते।

Siddhanta Kaumudi

Up

चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । हलि च <{SK354}> इति दीर्घः । चञ्चूर्यते । चंचूर्यते । पम्फुल्यते । पंफुल्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अभ्यासस्य मा भूदिति । अन्यथा प्रकरणातस्येव प्रसङ्गः । अन्त्यस्य मा भूदिति । ठादेः परस्यऽ इत्यस्य त्वप्रसङ्गः; पञ्चमीनिर्द्देशाभावात् । तपरकरणं किमिति । यद्यपि भाव्यमानोऽप्युकारः । सवर्णान्गृह्णाति, तथा प्यान्तर्यतो मात्रिकस्य मात्रिक एव सिद्ध इति प्रश्नः । लघूपधगुणनिवृत्यर्थमिति । अनेन लक्षणेन दीर्घस्य प्राप्त्यभावाल्लक्षणान्तरप्राप्तेऽपि विकारस्तपरकरणसामर्थ्याद्वार्यत इति भावः । यथैव तर्हि गुणो निवर्तते, तथा'हलि च' इति दीर्घत्वमपि निवर्तेत ? अत आह - दीर्घत्वे हीति ॥