7-4-87 चरफलोः च अभ्यासस्य यङ्लुकोः नुक्
index: 7.4.87 sutra: चरफलोश्च
चर फल इत्येतयोः अभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। पञ्चूर्यते। पञ्चूरीति। पम्फुल्यते। पम्फुलीति।
index: 7.4.87 sutra: चरफलोश्च
अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । नुगित्यनेनानुस्वारो लक्ष्यते ॥<!स च पदान्तवद्वाच्यः !> (वार्तिकम्) ॥ वा पदान्तस्य <{SK125}> इति यथा स्यात् ॥
index: 7.4.87 sutra: चरफलोश्च
चरतिर्भक्षणार्थः ।'ञिफला विशरणे' , फल निष्पतौऽ - द्वयोरपि ग्रहणमिष्यते । चञ्चूर्यत इति ।'लुपसद' इत्यादिना यङ् । उतरसूत्रेणा कारस्योत्वे'हलि च' इति दीर्घत्वम् । योगविभाग उतरार्थः ॥