दीर्घ इणः किति

7-4-69 दीर्घः इणः किति अभ्यासस्य लिटि

Kashika

Up

index: 7.4.69 sutra: दीर्घ इणः किति


इणोऽङ्गस्य योऽभ्यासः तस्य दीर्घो भवति किति लिटि परतः। ईयतुः, ईयुः। इणो यण् 6.4.81 इति यणादेशे कृते स्थानिवद्भावाद् द्विर्वचनम्। कितीति किम्? इयाय। इययिथ।

Siddhanta Kaumudi

Up

index: 7.4.69 sutra: दीर्घ इणः किति


इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । इतात् । इहि । अयानि । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.4.69 sutra: दीर्घ इणः किति


इणोऽभ्यासस्य दीर्घः स्यात् किति लिटि। ईयतुः। ईयतुः। ईयुः । इयायिथ, इयेथ । एता। एष्यति । एतु । एत् । एताम् । आयन् । इयात् ॥

Balamanorama

Up

index: 7.4.69 sutra: दीर्घ इणः किति


दीर्घ इणः किति - दीर्घ इणः । 'अत्र लोपः' इत्यतोऽभ्यासस्येति,व्यथो लिटीत्यतो लिटीति चानुवर्तते । तदाह — इणोऽभ्यासस्येति । ईयतुरिति । भारद्वाजनियमातॢ वडिति मत्वा आह — इययिथ इयेथेति । इयथुः ईय । इयाय इयय ईयिव ईयिम । एता । एष्यति । एतु — इतात् इताम् यन्तु । इहि — इतात् इतम् इत । अयानि अयाव अयाम । ऐदिति लङि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः । आयन्निति । झेरन्तादेसे इकारलोपे इ — अन् इति स्थितेइणो य॑णिति यणि कृते तस्याभीयत्वेनाऽसिद्धत्वादाडिति भावः । ऐः ऐतम् ऐत । आयम् ऐव ऐम । विधिलिङ्याह — इयादिति । इयाताम् । इयुरित्यादि । आशीर्लिङ्याह — ईयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ईयास्तामित्यादि ।

Padamanjari

Up

index: 7.4.69 sutra: दीर्घ इणः किति


यणादेशे कृत इति । परत्वात् । स्थानिवद्भावादिति ।'द्विर्वचने' चिऽ इति रूपस्थानिद्भावः । इयाय, इययिथेति । णलि थलि च वृद्धिगुणयोः कृतयोः स्थानिवद्भावाद् द्विर्वचनम्, ठभ्यासस्यासवर्णेऽ इतीयङ् ॥