अत आदेः

7-4-70 अतः आदेः अभ्यासस्य लिटि दीर्घः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अभ्यासस्य आदेः अकारस्य दीर्घो भवति लिटि परतः। अतो गुणे पररूपत्वस्य अपवादः। आट, आटतुः, आटुः। आदेः इति किम्? पपाच। पपाठ।

Siddhanta Kaumudi

Up

अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवाद । एधामास । एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥

Laghu Siddhanta Kaumudi

Up

अभ्यासस्यादेरतो दीर्घः स्यात् । आत । आततुः । आतुः । आतिथ । आतथुः । आत । आत । आतिव । आतिम । अतिता । अतिष्यति । अततु ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अतः आदेः>> - ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधामस् अ इति स्थिते द्वित्वे हलादिः शेषे अ अस् इति स्थिते सवर्णदीर्घं बाधित्वा अतो गुण इति पररूपे प्राप्ते — अत आदेः । 'अत्र लोप' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'दीर्घ इण' इत्यतो दीर्घ इतीति च । तदाह — अभ्यासस्येति । अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् 'अ इवाचरति अती' त्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते । एधामासेति । नचाऽत्रानुप्युज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्क्यं, तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाऽभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति । एधामासुः । एधामासिथ । एधामासथुः । एधामास । एधामासिव । एधामासिम । इति लिट्प्रक्रिया । एधितेति । लुटस्तादेशे एध्-त इति स्थिते शबपवादस्तस् । लुटः प्रथमस्येति डा । टिलोपः । एधितेति रूपम् । दीधीवेवीटामिति लघूपधगुणो न । एधिताराविति । लुट आताम् । तास् इट् । आतामित्यस्य रौभावः । रि चेति सलोपः । एधितार इति । झस्य रस् । तास् । इट् । रि चेतिसलोपः । रुत्वविसर्गौ । एधितास इति । थासः से । तास् इट् । तासस्त्योरिति सलोपः । एधितासाथे इति । आथाम् टेरेत्वं ।तास् । इट् ।

Padamanjari

Up

ठादेःऽ इति वचनादत्र तदन्तविधिर्न भवति, लिटीत्यनुवर्तते, किद्ग्रहणं तु निवृतम् । ठतो गुणेऽ पररूपत्वे प्राप्ते दीर्घत्वमिदमारभ्यते । तपरकरणं किम् ? दीर्घस्य मा भूत् - ठाच्छि आयामेऽ, आच्छ, आञ्च्छतुः, आञ्छुः । किं च स्यात्, यद्यत्र दीर्घः स्यात् ?'तस्मान्नुड् द्वहलः' इति नुट् प्रसज्येत । यद्यप्यत्रापि ह्रस्वत्वे कृते अद्भवति, तथापि तपरकरणसामर्थ्याद् ठदेव योऽत्ऽ इति विज्ञानात् स्वाभाविकस्य मात्रिकस्य परिग्रहः ॥