आप्ज्ञप्यृधामीत्

7-4-55 आप्ज्ञप्यृधाम् ईत् सि सनि अचः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आप् ज्ञपि ऋध इत्येतेषामङ्गानामच ईकारादेशो भवति सनि सकारादौ परतः। आपीप्सति। ज्ञपि ज्ञीप्सति। ऋद्ः ईर्त्सति। ज्ञपेः द्वावचौ, तत्र णेः पूर्वविप्रतिषेधेन लोपः, इतरस्य तु ईत्वम्। सनि इत्येव, प्राप्स्यति। सि इत्येव, जिज्ञपयिषति। अर्दिधिषति। सनीवन्तर्ध इति ज्ञपेः ऋधेश्च इटो विकओपः।

Siddhanta Kaumudi

Up

एषामच ईत्स्यात्सादौ सनि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आप्ज्ञप्यृधामीत्>> - आप्ज्ञप्यृधामीत् । सादौ सनीति ।सनि मीमाघुरभे॑त्यतः सनीति, अचेति चानुवर्तते ।सः स्यार्धधातुके॑ इत्तः सीत्यनुवृत्तं सनो विशेषणम् । तदादिविधिरिति भावः ।

Padamanjari

Up

ठाप्लृ व्याप्तौऽ,'ज्ञा अवबोधने' , णिचि पुक,'मारणतोषणनिशामनेषु ज्ञा' 'मिच्च' इति मित्संज्ञायाम्'मितां ह्रस्वः' । ठृधु वृद्धौऽ । ईर्त्सतीति । रपर ईकारः, धकारस्य चर्त्वम् । ज्ञपेरित्यादि । इह ठचःऽ इत्यनुवर्तते, तेन च ज्ञपौ विशिष्यमाणे अजन्तस्य ज्ञपेरित्वं, विधीयमानम् ठलोऽन्त्यस्यऽ इत्यन्त्यस्य स्यात्, अजन्तस्येति च विशेषणं व्यर्थम्; व्यभिचाराभावात्; तेन ज्ञपिनाज्विशेष्यते - ज्ञपेरचो यत्र तत्रस्थस्येति, यथा - आबृधिभ्याम् । एवं चैकप्रकारो विशेषणविशेष्यभावो भवति, तत्रानन्त्येऽचि सावकाशमीत्वमन्त्येऽचि पूर्वविप्रतिषेधेन णिलोपो बाधते, तदिदमुक्तम् - णेर्लोप इति । इतरस्य त्विति । अपर आह - अस्तु णेरपीत्वम्, तस्य स्थानिवद्भावाण्णिलोपो भविष्यति, ईत्ववचनं त्वनन्त्ये श्रवणार्थमिति । अर्दिधिषतीति । सनि इटि लघूपधगुणे रपरे कृते'न न्द्राः' इति प्रतिषेधाद् रेफवर्जितद्वितीयस्यैकाचो द्विर्वचनम् ॥