सनि मीमाघुरभलभशकपतपदामच इस्

7-4-54 सनि मीमाघुरभलभशकपतपदाम् अचः इस् सि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सनि प्रत्यये सकारादौ परतः मी मा घु रभ लभ शक पत पद इत्येतेषामङ्गानामचः स्थाने इसित्ययमादेशो भवति। मी इति मीनातिमिनोत्योः द्वयोरपि ग्रहणम् इष्यते। मित्सति। प्रमित्सति। मा इति गामादाग्रहणेषु अविशेषः। मित्सते। अपमित्सते। घु दित्सति। धित्सति। रभ आरिप्सते। लभ आलिप्सते। शक शिक्षति। पत् पित्सति। पद प्रपित्सते। सनि इति किम्? दास्यति। सि इत्येव, पिपतिषति। तनिपतिदरिद्राणामुपसङ्ख्यानम् इति पतेः इडागमविकल्पः। सनि राधो हिंसायामच इस् वक्तव्यः। प्रतिरित्सति। हिंसायाम् इति किम्? आरिरात्सति।

Siddhanta Kaumudi

Up

एषामच इस् स्यात्सादौ सनि । अभ्यासलोपः । स्कोः - <{SK380}> इति सलोपः । पित्सति । दिदरिद्रिषति । दिदरिद्रासति । डुमिञ् मीञ् आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरुपत्वाविशेषादिस् । सः सि - <{SK2342}> इति तः । मित्सति । दोदाणोः । दित्सति । देङ् । दित्सते । दाञ् । दित्सति । दित्सते । धेट् । धित्सति । धाञ् । धित्सति । धित्सते । रिप्सते । लिप्सते । शकि । शिक्षति । शक मर्षण इति दिवादिः । स्वरितेत् । शिक्षति । शिक्षते । पित्सते ।<!राधो हिंसायां सनीस् वाच्यः !> (वार्तिकम्) ॥ रित्सति । हिंसायां किम् । आरिरात्सति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सनि मीमाघुरभलभशकपतपदामच इस्>> - सनि मीमा । सादौ सनीति । 'सः सि' इत्यतः सीत्यनिवृत्तेरिति भावः । अभ्यासलोप इति । 'अत्र लोपः' इत्यनेनेति भावः । पिस्त् स इति स्थिते आह — स्कोरिति । दरिद्रातेः सनितनिपती॑ति इड्विकल्पमुदाहरति — दिदरिद्रिषति । दिदरिद्रासतीति । डु मिञिति ।डु मिञ् प्रक्षेपणे॑ स्वादिः, 'मीञ् हिंसायाम्' क्र्यादिः, आभ्यां सन्नित्यर्थः ।सनि मीमे॑त्यतर्मीग्रहणेन एतयोरुभयोग्र्रहणमिति भावः । ननु मीति दीर्घश्रवणात् डु मिञ् इत्यस्य ह्रस्वान्तस्य कथं ग्रहणमित्यत आह — कृतदीर्घस्येति । डु मिञ्धातोः सनिअज्झने॑ति कृतदीर्घस्य, तथामीञ् हिंसाया॑मिति स्वतः सिद्धदीर्घस्य च मीरूपाऽविशेषादुभयोरपि ग्रहणमित्यर्थः । सः सीति । उभयोरपि धात्वोः मी स इति स्थितेसनि मीमे॑ति इसादेशे द्वित्वे 'अत्र लोपः' इत्यभ्यासलोपेसः सी॑ति सस्य तकार इत्यर्थः । मित्सति मित्सते इति । प्रकृतेर्ञित्त्वात् 'पूर्ववत्सनःर' इति उभयपदित्वम् । माङ्मेङोरिति । मेङः सनि 'आदेचः' सनि आत्त्वे कृते मारूपत्वाऽविशेषात्सनि मीमे॑त्यत्र उभयोरपि ग्रहणमिति भावः । दोदोणोरिति । 'दो अवखण्डने' इतिधातोः सनि आत्त्वे कृते दारूपाऽविशेषाद्धुत्वादुभयोग्र्रहणमिति भावः । दित्सतीति ।हलन्ताच्चे॑ति कित्तवान्नोपधागुणः । देङिति । तस्यापि कृतात्त्वस्य घुत्वात्सनि मीमे॑त्यत्र ग्रहणमिति भावः । रिप्सते इति । रभधातोः रूपम् । लिप्सते इति । लभधातो रूपम् । पित्सतीति । पत्लृधातो रूपम् । पदधातोः पित्सते इति रूपम् । सनि इस् वाच्य इति ।आकारस्ये॑ति शेषः ।ष रित्सतीति । सनि इसादेशः । 'अत्र लोपः' इत्यभ्यासलोपः ।

Padamanjari

Up

सीत्येतदिहानुवृतं सनो विशेषणम् । मीनातिमिनोत्योरिति ।'मीञ् हिंसायाम्' ,'डुमिञ् प्रक्षेपणे' । उभयोरपि ग्रहणमिति । मिनोतेरपि ठज्झनगमां सनिऽ इति दीर्घे कृते'मी' इति रूपसम्भवात् । नन्वसौ लाक्षणिकः ? सत्यम्; इष्टिरेवेयम्, यदाह - इष्यत इति ।'मा माने' ,'माङ् माने' ,'मेङ् प्रणिदाने' - त्रयाणामपि ग्रहणम् । मीनातिमिनोत्योः सनः कित्वे सति अनेज्विषयत्वात् मारूपासम्भवात्पृथग्ग्रहणम् । घु इति । घुसंज्ञका दाधा गृह्यन्ते ।रभ राभस्येऽ,'डुलभष् प्राप्तौ' , शक्लृ शक्तौऽ,'पल्लृ गतौ' । मित्सतीति ।'स स्यार्धधातुके' इति सकारस्य तकारः, ठत्र लोपोऽभ्यासस्यऽ । आत्मनेदिषु'पूर्ववत्सनः' । आरिप्सते इत्यादौ'स्कोः संयोगाद्योः' इति सलोपः ॥