द्यतिस्यतिमास्थामित्ति किति

7-4-40 द्यतिस्यतिमास्थाम् इत् ति किति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्यति स्यति मा स्था इत्येतेषामङ्गानाम् इकारादेशो भवति तकारादौ किति प्रत्यये परतः। द्यति तिर्दितः। निर्दितवान्। स्यति अवसितः। अवसितवान्। मा मितः। मितवान्। स्था स्थितः। स्थितवान्। तीति किम्? अवदाय। कितीति किम्? अवदाता।

Siddhanta Kaumudi

Up

एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्यतिस्यतिमास्थामित्ति किति>> - द्यतिस्यति । एषां चतुर्णां द्वन्द्वात्षष्ठी । 'दो अवखण्डने' इत्यस्य द्यतीति निर्देशः ।षो अन्तकर्मणी॑त्यस्य तु स्यतीति निर्देशः । इत्-ति- कितीति च्छेदः । ईत्त्वेति ।घुमास्थे॑ति ईत्त्वस्य,दो दद्धो॑रिति दद्भावस्य च यथासंभवमपवाद इत्यर्थः । दोधातोरुदाहरति — दित इति । मा माङ् मेङिति ।गामादाग्रहणेष्वविशेषः॑ इति वचनादिति भावः ।

Padamanjari

Up