कव्यध्वरपृतनस्यर्चि लोपः

7-4-39 कव्यध्वरपृतनस्य ऋचि लोपः यङि क्यचि छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कवि अध्वर पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये। कव्यन्तः सुमनसः। अध्वर अध्वर्यन्तः। पृतना पृतन्यन्तः तिष्ठन्ति।

Siddhanta Kaumudi

Up

एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः (सपूर्व॑या नि॒विदा॑ क॒व्यता॒योः) । अध्वर्युं वा मधुपाणिम् । दमयन्तं पृतन्युम् (द॒मय॑न्तं पृत॒न्युम्) । दधातेर्हि <{SK3076}> । जहातेश्च क्त्वि <{SK3331}> ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up