7-4-41 शाच्छोः अन्यतरस्याम् इत् ति किति
शा छा इत्येतयोः अन्यतरस्याम् इकारादेशो भवति तकारादौ किति। शा निशितम्, निशातम्। निशितवान्, निशातवान्। छा अवच्छितम्, अवच्छातम्। अवच्छितवान्, अवच्छातवान्। श्यतेरित्त्वं व्रते नित्यम् इति वक्तव्यम्। शंशितो ब्रह्मणः। संशितव्रतः इत्यर्थः। व्यवस्थितविभाषविज्ञानात् सिद्धम्। देवत्रातो गलो ग्राह इति योगे च सद्विधिः। मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।
शितः । शातः । छितः । छातः । व्यवस्थितविभाषात्वाद्व्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ॥
<<शाछोरन्यतरस्याम्>> - शाच्छोः । शो तनूकरणे॑ 'छो छेदने' अनयोः कृतात्वयोर्निर्देशः । अनयोरिकारोऽन्तादेशो वा स्यात्तादौ कितीत्यर्थः । व्यवस्थितेति । एतच्च भाष्ये स्पष्टम् ।