लोपः पिबतेरीच्चाभ्यासस्य

7-4-4 लोपः पिबतेः इत् च अभ्यासस्य णौ चङि उपधायाः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पिबतेः अङ्गस्य णौ चङि उपधायाः लोपो भवति, अभ्यासस्य ईकारादेशो भवति। अपीप्यत्, अपीप्यताम्, अपीप्यन्। उपधालोपे कृते ओः पुयण् वचनं ज्ञापकं णौ स्थानिवद्भावस्य इति स्थानिवद्भावाद् द्विर्वचनम्।

Siddhanta Kaumudi

Up

पिबतेरुपधाया लोपः स्यादभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत् । अर्तिह्री - <{SK2570}> इति पुक् । अर्पयति । ह्रेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मापयति । स्थापयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लोपः पिबतेरीच्चाभ्यासस्य>> - लोपः पिबतेः । चङ्परे णाविति । 'णौ चङ्युपधायाः' इत्यतस्तदनुवृत्तेरिति भावः । अपीप्यदिति ।नानर्थकेऽलोऽन्त्यविधि॑रित्स्य अनभ्यासविकार इति निषेधादभ्यासाऽन्त्यस्य ईत्त्वम् । इह उपधालोपे कृतेऽग्लोपित्वादलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधिः । अर्तिहीति पुगिति । 'क्रमेणोदाह्यियते' इति शेषः । अर्पयतीति । ऋधातोरुदाहरणम् । वृदिंध बाधित्वा नित्यत्वात् पुक् । गुणः । ह्येपयतीति ।ह्यी लज्जाया॑मित्यस्य रूपम् । व्लेपयतीति । 'व्ली विशरणे' इत्यस्य रूपम् । रेपयतीति । 'री क्षये' इत्यस्योदाहरणम् । 'क्नूयी शब्दे' इत्यस्य क्नोपयतीत्युदाहरिष्यन्नाह — यलोप इति । क्नूयीधातोर्णौ पुकिलोपो व्यो॑रिति यलोप इत्यर्थः । ततः क्नूप् इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद्गुणः । क्ष्मापयतीति । 'क्ष्मायी विधूनने' अस्माण्णौ पुकि यलोपः । आदन्तस्योदाहरति — स्थापयतीति । लुङि चङि अतिष्ठप् अ त् इति स्थिते —

Padamanjari

Up

अपीप्यदिति । ननु च परत्वान्नित्यत्वादुपधालोपे कृते, अनच्कत्वाद् द्विर्वचनं न प्राप्नोति ? अत आह - उपधालोपे कृत इति । उपधाया एव पर्यायेणेत्वं मा भूदिति अभ्यासस्य ग्रहणम् । आकारलोपेनाङ्गस्याग्लोपित्वाल्लघुनश्च परस्यासम्भवात्'सन्वल्लघुनि' इतीत्वदीर्घत्वयोरभावादीत्वविधिः । तिपा निर्देशो यङ्लुग्निवृत्यर्थः ॥