भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्

7-4-3 भ्राजभासभाषदीपजीवमीलपीडाम् अन्यतरस्याम् णौ चङि उपधायाः ह्रस्वः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भ्राज भास भाष दीप जीव मील पीड इत्येतेषामङ्गानां णौ चङि उपधाया ह्रस्वो भवति अन्यतरस्याम्। भ्राज अबिभ्रजत्, अबभ्राजत्। भास अबीभसत्, अबभासत्। भाष अबीभषत्, अबभाषत्। दीप अदीदिपत्, अदिदीपत्। जीव अजीजिवत्, अजिजीवत्। मील अमीमिलत्, अमिमीलत्। पीड अपीपिडत्, अपिपीडत्। भ्राजभासोरृदित्करणमपाणिनीयम्। काण्यादीनां चेति वक्तव्यम्। कण अचीकणत्, अचकाणत्। वण अवीवणत्, अववाणत्।

Siddhanta Kaumudi

Up

एषामुपाधाया ह्रस्वो वा स्याच्चङ्परे णौ । अपीपिडत् । अपिपीडत् ।{$ {!1545 नट!} अवस्कन्दने$} । अवस्कन्दनं नाट्यम् ।{$ {!1546 श्रथ!} प्रयत्ने$} । प्रस्थान इत्येके ।{$ {!1547 बध!} संयमने$} । बाधयति । बन्धेति चान्द्रः ।{$ {!1548 पॄ!} पूरणे$} । पारयति । दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गम् । तद्धि सेट्कत्वाय । एवं च पृणातिपिपर्तिभ्यां परितेत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम् ।{$ {!1549 ऊर्ज!} बलप्राणनयोः$} ।{$ {!1550 पक्ष!} परिग्रहे$} ।{$ {!1551 वर्ण!} {!1552 चूर्ण!} प्रेरणे$} । (गणसूत्रम् -) वर्ण वर्णन इत्येके ।{$ {!1553 प्रथ!} प्रख्याने$} । प्राथयति । नान्ये मितोऽहेताविति वक्ष्यमाणत्वान्नास्य मित्त्वम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्>> - भ्राजभास ।णौ चङ्युपधाया ह्रस्वः॑ इत्यनुवर्तते । तदाह - एषामिति । नित्ये उपधाह्रस्वे प्राप्ते विकल्पोऽयम् । ह्रस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्य आह — अपीपिडदिति । अत्र उत्तरखण्डे ह्रस्वः, पूर्वखण्डे तु दीर्घः । ह्रस्वाऽभावपक्षे तु लघुपरकत्वाऽभावात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घ इति मत्वाह — अपीपीडदिति । अत्र उत्तरखण्डे दीर्घः । पूर्वखण्डे ह्रस्वः । नट अवस्पन्दने । इति । अवस्पन्दनं नाटम् । नाटयति । अनीनटत् । श्रथ प्रयत्ने । श्राथयति । अशिश्रथत् । सन्वत्त्वविधौ नेकहल्व्यवधनेऽपि लघुपरत्वं न विरुध्यते, अत्स्मृदृत्वरे॑ति ईत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात् । अन्यथा अपप्रथदित्यादौ अनेकहल्व्यवधानाल्लघुपरत्वाऽभावादेव इत्त्वाऽप्रसक्त्या किं तेन । पृ पूरणे । ननु ह्रस्वात् एवायं धातुर्निर्दिश्यतां, तावतैव पारयतीत्यादि सिद्धेः । न च णिजभावपक्षे परिता परिष्यतीत्यत्र इडर्थं दीर्गोच्चारणम्, ऋदन्तत्वे अनिट्कत्वप्रसिङ्गादिति वाच्यं, चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्त आह - दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गमिति ।पृधातो॑रिति शेषः । णिचः पाक्षिकतवे तु परित#एत्यादौ पर्तेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः । ननु ह्रस्वान्तत्वेऽपि परितेत्यादौ इट् कुतो न स्यादित्यत आह- तद्धि सेट्कत्वायेति । हि = यतः, तत् = दीर्घोच्चारणं परितेत्यादौ सेट्कत्वार्थम् ऋदन्तत्वे तु इण्न स्यात्,ऊदृदन्तै॑रित्यनिट्कारिकासु ॠदन्तस्य पर्युदासेन ऋदन्तस्याऽनिट्कत्वावगमादिति भावः । ननु पृधातोर्णिचः पाक्षिकत्वज्ञापनस्य किं फलम् । श्नाविकरमश्नुविकरणपठिताभ्यामेव पृधातुभ्यां परितेत्यादिसिद्धेरित्यत आह — एवं चेति । उक्तरीत्या पृधातोर्णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः । [पारयति] परतीति ।उदोष्ठपूर्वस्ये॑त्युत्वं तु न भवति, पराभ्यां गुणवृद्धिभ्यां बाधादिति भावः । ऊर्ज बलेति ।सन्वल्लघूनी॑ति सूत्रं द्वेधा व्यख्यातं प्राक् । तत्र चङि 'न न्द्राः' इति निषेधात्, 'जि' इति णिजन्तस्य द्वित्वे उत्तरखण्डे चङ्परे णौ लघोरभावात्प्रथमव्याख्यानेऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घः, और्जिजत् । द्वितीयव्याख्याने तु चङ्परे णौ यदङ्गम् ऊर्ज इत्येतत्, तदीयस्याभ्यासस्य चङमादाय वा णिचं लुप्तमादाय वा लघुपरकत्वाभ्यासस्य दीर्घः, और्जीजत् । एवमेव एवंजातीयकेषु द्रष्टव्यम् । प्रथ प्रख्याने । प्राथयतीति । णिचि उपधावृद्धिरिति भावः । नन्वस्य घाटादिकत्वेन मित्त्वाद्ध्रस्वः स्यादित्यत आह — नान्ये इति । ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः । घाटादिकस्य तु मित्त्वाद्धेतुमण्णिचिप्रथयती॑त्येव भवति । न च चौरादिकस्यैव मित्त्वार्थं घटादावनुवादः किं न स्यादिति वाच्यं, 'नान्ये मितोऽहेतौ' इति निषेधादित्यलम् ।

Padamanjari

Up

'भ्राज दीप्तौ' ,'भासृ दीप्तौ' ,'भाष व्यक्तायां वाचि' भौवादिकाः;'दीपि दीप्तौ' , दैवादिकः, सर्वेऽनुदातेतः;'जीव प्राणधारणे' भौवादिकः;'मील निमेषणे' ,'पीड अवबाधने' - चुरादी । भ्राजभासोरित्यादि । अवश्यमनयोरनुदातोऽनुबन्ध आसङ्क्तव्यः, ऋकारानुरोधस्त्वपाणिनीय इत्युच्यते । ऋकारानुबन्धे प्राप्ते विभाषा, वर्णान्तरे त्वप्राप्ते विभाषेति । ऋकारानुरोधे फलविशेषाभावादपाणिनीयत्वम् । काण्यादीनामिति । काणिवाणिराणिहेठिलोपिप्रभृतयः काण्यादयः । आदिशब्दः । प्रकारे ॥