देवसुम्नयोर्यजुषि काठके

7-4-38 देवसुम्नयोः यजुषि काठके यङि क्यचि छन्दसि आत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देव सुम्न इत्येतयोः क्यचि परतः आकारादेशो भवति काठके यजुषि। देवायते यजमानाय। सुम्नायनतो हवामहे। यजुषि इति किम्? देवाञ् जिगाति सुम्नयुः। काठके इति किम्? सुम्नयुरिदमसीदमसि।

Siddhanta Kaumudi

Up

अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् । देवायन्तो यजमानाः । सुम्नायन्तो हावमहे (सु॒म्ना॒यन्तो॑ हवामहे) । इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः । तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति । स चेन्मन्त्रो यजुषि कठशाखायां दृष्टः । यजुषीति किम् । देवाञ्जिगाति सुम्नयुः (दे॒वाञ्जि॑गाति सुम्न॒युः) । बह्वृचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

वेदवचनोऽत्र यजुः शब्दः, न मन्त्रवचनः । कठानामिदं काठकम्,'गोत्रचरणाअद्वुञ्' । काठके यजुषि कठशाखायामित्यर्थः ॥ एवं च कृत्वा ऋगात्मके यजुषि मन्त्रे कठशाखायामात्वं भवति, तथा ऋग्वेदेऽपि भवति स चेन्मन्त्रः काठके दृष्टः । देवान् जिगाति सुम्नयुरिति । बह्वृचानामप्यस्ति कठशाखा, ततो भवति प्रत्युदाहरणम् । अनन्ता वै वेदाः ॥ द्यतिस्यतिमास्थामिति किति ॥'दो अवखण्डने' ,'षो अन्तकर्मणि' ।'मा माने' ,'माङ् माने' ,'मेङ् प्रणिदाने' - त्रयाणामपि ग्रहणम्, गामादाग्रहणेष्वविशेषात् । अवदायेति । ल्यप् । अवदातेति । तृच् ।'द्यतिस्यति' इति श्तिपा निर्द्देशो धातुविशेषणार्थः ॥