अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु

7-4-34 अशनायोदन्यधनायाः बुभुक्षापिपासागर्धेषु यङि अस्य क्यचि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अशनाय उदन्य धनाय इत्येतानि निपात्यन्ते बुभुक्षा पिपासा गर्ध इत्येतेषु अर्थेषु। अशनाय इत्यशनशब्दस्य आत्वं क्यचि निपात्यते। अशनायतीति भवति बुभुक्षा चेत्। अशनीयति इत्येव अन्यत्र। उदन्य इति वदकशब्दस्य उदन्नादेशो निपात्यते। उदन्यतीति भवति पिपासा चेत्। उदकीयति इत्येव अन्यत्र। धनाय इति धनशब्दस्य आत्वं निपात्यते। धनायतीति भवति गर्धः चेत्। धनीयति इत्येव अन्यत्र।

Siddhanta Kaumudi

Up

क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु>> - अशनायोदन्य । अशनाय, उदन्य, धनाय इत्येषां द्वन्द्वः । क्यजन्ता इति । एते त्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थः । भोक्तुमिच्छा बुभुक्षा । पातुमिच्छा पिपासा । गर्द्धः अभिकाङ्क्षा । अशनायतीति । अश्यते यत्तदशनम् = अन्नं, तद्भोक्तुमिच्छतीत्यर्थः ।क्यचि चे॑ति ईत्त्वाऽभावो निपात्यते ।अकृत्सार्वे॑ति दीर्घः । उदन्यतीति । उदकं पातुमिच्छतीत्यर्थः । उदकशब्दस्य उदन्नादेशो निपात्यते, नलोपाऽबावश्च । धनायतीति । जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः ।क्यचि चे॑ति ईत्त्वाऽभावो निपात्यते । अशनीयतीति । अशनम् = अन्नं, तत्सङ्ग्रहीतुमिच्छति वैआदेवाद्यर्थमित्यर्थः । उदकीयतीति । सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः । धनीयतीति । दरिद्रः सन् जीवनाय धनमिच्छतीत्यर्थः ।

Padamanjari

Up