7-4-35 न छन्दसि अपुत्रस्य यङि अस्य क्यचि
index: 7.4.35 sutra: न च्छन्दस्यपुत्रस्य
छन्दसि विषये पुत्रवर्जितस्य अवर्णान्तस्य अङ्गस्य क्यचि यदुक्तं तन् न भवति। किं चोक्तम्? दीर्घत्वम् ईत्वं च। मित्रयुः। संस्वेदयुः। देवाञ् जिगाति सुम्नयुः। अपुत्रस्य इति किम्? पुत्रीयन्तः सुदानवः। अपुत्रादीनाम् इति वक्तव्यम्। जनीयन्तोऽन्वग्रवः।
index: 7.4.35 sutra: न च्छन्दस्यपुत्रस्य
पुत्रभिन्नस्यादन्तस्य क्यचि ईत्वदीर्घौ न । मित्रयुः । क्याच्छन्दसि <{SK3150}> इति उः । अपुत्रस्य किम् । पुत्रीयन्तः सुदानवः (पु॒त्रीयन्तः॑ सु॒दान॑वः) ॥ अपुत्रादीनामिति वाच्यम् ॥ जनीयन्तोन्वग्रवः (ज॒नी॒यन्तोन्वग्र॑वः) । जनमिच्छन्त इत्यर्थः ।
index: 7.4.35 sutra: न च्छन्दस्यपुत्रस्य
इहानन्तर्थादीत्वस्यैव प्रतिषेधः प्राप्नोति, ततश्चापवादेऽपनीते उत्सर्गः ठकृत्सावेधातुकयोःऽ इति दीर्घः प्राप्नोतीत्याशङ्क्याह - क्यचि यदुक्तं तन्न भवतीति । किं पुनस्तत् ? इत्यत आह - दीर्घत्वमीत्वं चेति । एवं मन्यते - यदयम् ठश्वाघस्यात्ऽ इत्यात्वं शास्ति, तज्ज्ञापयति - दीर्घस्याप्ययं प्रतिषेध इति; अन्यथा दीर्घेणैव सिद्धत्वादात्ववचनमनर्थकं स्यादिति । मित्रयुरित्यादौ'क्याच्छन्दसि' इत्युप्रत्ययः । पुत्रमिच्छन्तः पुत्रीयन्तः । जनमिच्छन्तो जनीयन्तः, लटः शत्रादेशः, ठुगिदचाम्ऽ इति नुम् । अपरे त्वाहुः - जनीमिच्छन्तो जनीयन्तः, जनीति वधूरुच्यत इति । तत्रादिग्रहणस्य प्रयोजनान्तरं मृग्यम् ॥