7-4-26 च्वौ च यि अकृत्सार्वधातुकयोः दीर्घः
index: 7.4.26 sutra: च्वौ च
च्विप्रत्यये परतोऽजन्तस्य अङ्गस्य दीर्घो भवति। शुचीकरोति। शुचीभवति। शुचीस्यात्। पटूकरोति। पटूभवति। पटूस्यात्।
index: 7.4.26 sutra: च्वौ च
च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । स्वस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । स्वस्तीस्यादित्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु । रीङृतः <{SK1234}> । मात्रीकरोति ॥
index: 7.4.26 sutra: च्वौ च
च्वौ परे पूर्वस्य दीर्घः स्यात्। अग्नीभवति॥
index: 7.4.26 sutra: च्वौ च
च्वौ च - अथशुचीभवती॑तिवक्ष्यन्नाह — च्वौ च । दीर्घः स्यादिति ।अकृत्सार्वधातुकयो॑रित्यतस्तदनुवृत्तेरिति भावः । अव्ययस्येति । अव्ययस्यच्वौ चे॑ति दीर्घो नेत्यर्थः । तेन स्वस्तिस्यादित्यत्र च्वौ न दीर्घ इति भावः । तन्निरमूलमिति । भाष्यावदृष्टत्वादिति भावः । तर्हिस्वस्ति स्या॑दिति न स्यात्, दीर्घप्रसङ्गादित्यत आह — स्वस्ति स्यादिति त्विति । ननु महाविभाषया दीर्घाऽभावे स्वस्ति स्यादिति सिद्धावपि, कदाचित्स्वस्ती स्यादिति दीर्घो दुर्वार इति शङ्कते — स्वस्तीस्यादित्यपि पक्षे स्यादिति । इष्टापत्तिरित्याह — अस्त्विति ।दीर्घतदभावाभ्यां रूपद्वय॑मिति शेषः । प्रामाणिकत्वादुभयमप्यादर्तव्यमिति । भावः । ननु शिष्टानङ्गीकारात्कथं दीर्घपाठादर इत्यत आह-यदि नेष्यते इत्यादि । मातृशब्दाच्च्विप्रत्यये विशेषमाह — रीङृत #इति ।