7-4-23 उपसर्गात् ह्रस्वः ऊहतेः यि क्ङिति
उपसर्गादुत्तरस्य उहतेरङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः। समुह्यते। समुह्य गतः। अभ्युह्यते। अभ्युह्य गतः। उपसर्गातिति किम्? ऊह्यते। ऊहतेः इति किम्? समीह्यते। यि इत्येव, समूहितम्। क्ङिति इत्येव, समूह्योोऽयमर्थः। अणः इत्येव, आ ऊह्यते ओह्यते। समोह्यते।
यादौ क्ङिति । ब्रह्म समुह्यात् । अग्रिं समुह्य ॥
<<उपसर्गाद्ध्रस्व ऊहतेः>> - उपसर्गाद्ध्रस्व ऊहतेः । 'यादौ क्ङिति' इति शेषपूरणम् । 'अयडि क्ङिति' इत्यतस्तदनुवृत्तेरिति भावः । ब्राहृ समुह्रादिति । ऊह वितर्के । सम्यग्विचारयेदित्यर्थः । अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य ह्रस्वः । अग्न समुह्रेति । परितः संमृज्येत्यर्थः । क्त्वादेशस्य ल्यपः कित्त्वमिति भावः ।
ङितोऽसम्भवादुदाहारणं न प्रदर्शितम् । यङस्तावदजादित्वादसम्भवः । यासुटोऽपि शपा व्यवधानात् । आशिषि तु किदेव यासुट् । एवं चोहतेर्दीर्घप्रयोगनिवृत्यर्थं वचनम् । समुह्यत इत्यादिकं तु रूपं वहेरेव सम्प्रसारणे कृते सिद्धम् । अनेकार्थत्वाद्धातूनामर्थभेदोऽप्यकिञ्चित्करः । आ ऊह्यत इति । नेदं लौकिकं वाक्यं प्रयोगार्हम्, न हि तत्र धातूपसर्गयोरसंहितास्ति;'संहितैकपदे नित्या नित्या धातूपसर्गयोः' इति स्मरणात् । तस्मादलौकिकेन प्रक्रियावाक्येनाङ्ः प्रश्लेपः प्रदर्श्यत इति ह्रस्वत्वं न कृतम्; लौकिकप्रयोगसम्पादनपरत्वाच्छास्त्रस्य । अन्ये त्वत्रापि ह्रस्वत्वं पठन्ति । ओह्यत इति । अत्रैकादेशे कृते व्यपवर्गाभावाद् ह्रस्वाभावः, ठुपसर्गादूहतेःऽ इत्युभयत आश्रयणादन्तादिवद्भावोऽपि नास्ति । समोह्यत इति । अत्रैकादेशस्यादिवद्भावात्समः परस्य ह्रस्वत्वप्रसङ्गः । ठणःऽ इत्यनुवृतेस्तु न भवति, पूर्वणैव णकारेण प्रत्याहारः एवं च रूपाश्रयोऽयं विधिरिति ताद्रूप्यानतिदेशाद् ह्रस्वाभावः ॥