एतेर्लिङि

7-4-24 एतेः लिङि यि क्ङिति उपसर्गात् ह्रस्वः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एतेरङ्गस्य उपसर्गादुत्तरस्य लिङि यकारादौ क्ङिति परतो ह्रस्वो भवति। उदियात्। समियात्। अन्वियात्। आशिषि लिङि अकृत्सार्वधातुकयोः इति दीर्घत्वे कृते ह्रस्वोऽनेन भवति। उपसर्गातित्येव, ईयात्। अणः इत्येव, आ ईयातेयत्। समेयात्।

Siddhanta Kaumudi

Up

उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥

Laghu Siddhanta Kaumudi

Up

उपसर्गात्परस्य इणोऽणो ह्रस्व आर्धधातुके किति लिङि। निरियात्। उभयत आश्रयणे नान्तादिवत्। अभीयात्। अणः किम्? समेयात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<एतेर्लिङि>> - एतेर्लिङि ।उपसर्गाद्ध्रस्व ऊहते॑रित्यत 'उपसर्गाद्ध्रस्व' इति ,केऽणः॑इत्यतोऽण इति,अयङ्यि क्ङिती॑त्यतः कितीति चानुवर्तते । तदाह — उपसर्गात्परस्येत्यादि । इह आर्धधातुके इति प्रामादिकं, पूर्वसूत्रेषु तदभावादनुवृत्तेरसंभवात्, किति लङीत्येव सिद्धेश्च । ङितीति तु नानुवर्तते, इण आर्धधातुकलिङो ङित्त्वाऽभावात् । नन्वमीयादित्यत्रापि ह्रस्वः स्यादित्यत आह — उभयत इति । अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिणधातुत्वं न सम्भवति, परादिवत्त्वेन इण्धातुत्वाश्रयणे तु न उपसर्गात्परत्वम्, उपसर्गैकदेशस्य इकारस्य ईकारात्मना सत्त्वेन 'अभ्' इत्यस्य उपसर्गत्वाऽभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न संभवति, पूर्वपरशब्दाभ्यामन्तादिशब्दाभ्यां च विरोधस्य पुरः स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसंभवादित्यर्थः । इदं च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च 'अभ्' इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वदीकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यं, लक्ष्यानुसारेण क्वचिदेकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः । सम#एयादिति । आ-इयात् एयात् । समेयादित्यत्र एकारस्य अनण्त्वान्न ह्रस्वः । ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित्समीया॑दिति प्रयोगः कथमित्याशङ्क्याह — समीयादिति प्रयोगस्तु भौवादिकस्येति । 'इट किट कटी गतौ' इति प्रश्लिष्टस्य इधातोराशीर्लिङिअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घो बोध्य इति भावः । लुङि विशेषमाह —

Padamanjari

Up

आशिषि लिङीत्यादिना सूत्रस्य विषयं दर्शयति । सार्वधातुके हि लिङ् दीर्घित्वमिणो न सम्भवति । ननु च सवर्णदीर्घत्वे सति सम्भवति - अभीयात्, प्रतीयात्, परीयादिति, नात्र ह्रस्वत्वेन भवितव्यम्; किं कारणम् ? ठुपसर्गादेतेःऽ इत्युभयत आश्रयणादन्तादिवद्भावाभावात् । आऐइयादित्यादि । आऔउह्यत इत्यादिना व्याख्यातम् ॥