अयङ् यि क्ङिति

7-4-22 अयङ् यि क्ङिति शीङः

Kashika

Up

index: 7.4.22 sutra: अयङ् यि क्ङिति


यकारादौ क्ङिति प्रत्यये परतः शीङः अङ्गस्य अयङित्ययमादेशो भवति। श्य्यते। शाशय्यते। प्रशय्य। उपशय्य। यि इति किम्? शिश्ये। क्ङितीति किम्? शेयम्।

Siddhanta Kaumudi

Up

index: 7.4.22 sutra: अयङ् यि क्ङिति


शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते । इति तिङन्तयङ्प्रकरणम् ।

Padamanjari

Up

index: 7.4.22 sutra: अयङ् यि क्ङिति


शय्यत इति । यक् । शाशय्यत इति । यङ्, परत्वान्नित्यत्वाच्चायङदेशे कृते द्विर्वचनम् । प्रशय्येति । ल्यप् ॥