पतः पुम्

7-4-19 पतः पुम् अङि

Kashika

Up

index: 7.4.19 sutra: पतः पुम्


पतेरङ्गस्य पुमागमो भवति अङि परतः। अपप्तत्, अपप्तताम्, अपप्तन्।

Siddhanta Kaumudi

Up

index: 7.4.19 sutra: पतः पुम्


अङि परे । अपप्तत् ।नेर्गद - <{SK2285}> इति णत्वम् । प्रण्यपप्तत् ।{$ {!846 क्वथे!} निष्पाके$} । क्वथिति । चक्वाथ । अक्वथीत् ।{$ {!847 पथे!} गतौ$} । अपथीत् ।{$ {!848 मथे!} विलोडने$} । मेथतुः । अमथीत् ।{$ {!849 टुवम!} उद्गिरणे$} । इहैव निपातनादॄत इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्यादेत्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् ।{$ {!850 भ्रमु!} चलने$} । वा भ्राश - <{SK2321}> इति श्यन्वा । भ्रम्यति । भ्रमति । भ्राम्यतीति तु दिवादेर्वक्ष्यते ॥

Padamanjari

Up

index: 7.4.19 sutra: पतः पुम्


अपप्तदिति । लृदित्वादङ् ॥