श्वयतेरः

7-4-18 श्वयतेः अः अङि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

श्वयतेः अङ्गस्य अकारादेशो भवति अङि परतः। अश्वत्, अश्वताम्, अश्वन्।

Siddhanta Kaumudi

Up

श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । विभाषा धेट्श्व्योः <{SK2375}> इति चङ् । इयङ् । अशिश्वियत् । ह्म्यन्त - <{SK2299}> इति न वृद्धिः । अश्वयीत् ॥ वृत् । यजादयो वृत्ताः । भ्वादिस्तवाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥ इति तिङन्ते भ्वादयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<श्वयतेरः>> - आयतेरः । आयतेः — अ इति च्छेदः । आयतेरिति श्तिपा निर्देशः । इआधातोरित्यर्थः ।अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारस्येति लभ्यते । 'ऋदृशोऽङो' इत्यतोऽङीत्यनुवर्तते । तदाह — आयतेरिकारस्येति । अआ अ त् इति स्थिते सवर्णदीर्घमाशङ्क्याह — पररूपमिति । आर्धधातुकोपदेशे अदन्तत्वाऽभावान्न अल्लोपः । अआन्निति । अआः अआतमआत । अआमआआव अआआम । अङभावपक्षे त्वाह — विभाषेति । इयङिति ।चङी॑ति द्वित्वमित्यपि ज्ञेयम् । तदाह — अशिइआयदिति । अङश्चङश्चाऽभावे तु अइआ ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्यामायादेशे अआआयीदित प्राप्ते आह — ह्म्यन्तेति न वृद्धिरिति । इआग्रहणादिति भावः । न चनेटी॑त्येव सिचि अइआ ईत् इति स्तिते सिचि वृद्ध्यपेक्षया परत्वादन्तरङ्गत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाऽभावेन सिचि वृद्ध्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेःह्म्यन्ते॑त्यत्र इआग्रहणं व्यर्तमिति व्याच्यम्, अनवकाशतया अपवादत्वेन गुणं बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम् । वृदित्यस्य व्याख्यानम् — यजादयो वृत्ता इति । ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह — भ्वादिस्त्वाकृतिगण इति । चुलुम्पतीति । चुलुम्पधातुर्लोपार्थकः, तस्यापि भ्वादिगणे पाठाच्छब्विकरणत्वमिति भावः । इति भ्वादय इति । नचैवं सति 'अद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्वं क्थमिति शङ्क्यं, शब्विकरणा भ्वादयः समाप्ता इत्यर्थात् । इति बालमनोरमायां भ्वादयः ।अथ चातुरर्थिक प्रकरणम् । — — — — — — — — -

Padamanjari

Up

अश्वदिति ।'जृस्तम्भु' इत्यादिनाङ् ॥