तृणह इम्

7-3-92 तृणः इम् पिति सार्वधातुके हलि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तृणह इत्येतस्याङ्गस्य इमागमो भवति हलि पिति सार्वधातुके। तृणेढि। तृणेक्षि। तृणेह्मि। अतृणेट्। वर्णाश्रयेऽप्यत्र प्रत्ययलक्षणमिष्यते। हलीति किम्? तृणहानि। पितीत्येव — तृण्ढः। तृणह इत्यागतश्नम्को गृह्यते, श्नमि कृत इमागमो यथा स्यादिति॥

Siddhanta Kaumudi

Up

तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता ।{$ {!1457 उन्दी!} क्लेदने$} । उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् ।{$ {!1458 अञ्जू!} व्यक्तिम्रक्षणकान्तिगतिषु $}। अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । आनङ्क्थ । अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् ॥

Laghu Siddhanta Kaumudi

Up

तृहः श्नमि कृते इमागमो हलादौ पिति सार्वधातुके। तृणेढि। तृण्ढः। ततर्ह। तर्हिता। अतृणेट्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तृणह इम्>> - तृणह इम् । 'तृणह' इति षष्ठी । कृतश्नमस्तृहधातोर्निर्देशः । र॒नाभ्यस्तस्ये॑त्यतः पितीति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । फलितमाह - तृहः श्नमि कृते इति । मित्तवादन्त्यादचः परः । 'श्नमि कृते' इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन श्नम्बाध्येत,सत्यपि संभवे बाधनं भवती॑ति नयायात् । अन्यथाब्राआहृणेभ्यो ददि दीयतां, तक्रं कौण्डिन्याये॑त्यत्र तक्रेण दधि न बाध्येत, श्नमा शप्च न बाध्येत, देशभेदेन उभयसंभवादिति भावऋ । तृणेढीति । तृणह् तस् इति इमागमे आद्गुणे तृणेह् ति स्थिते ढत्वधत्वष्टुत्वढलोपा इति भावः । तृण्ढ इति । तसि श्नमि कृते, तृणह् तस् इति स्थिते , तसोऽपित्त्वादिमागमाऽभावेश्नसो॑रित्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः । तृंहन्ति । तृणेक्षि तृण्ढः तृण्ढ । तृणेहिऋ तृंह्वः तृंह्मः । ततर्हेति.ततृहतुः । ततर्हिथ । ततृहिव । तर्हितेति । सेडिति भावः । तर्हिष्यति । तृणेढु - तृण्ढात् तृण्ढाम् तृंहन्तु । तृण्ढि - तृण्ड्ढि - तृण्ढात् तृण्ढम् तृण्ढ । तृणहानि तृणहाव तृणहाम । अतृणेडिति । लङ स्तिपि श्नमि इम् हल्ङ्यादिलोपः ढत्वजश्त्वे इति भावः । अतृण्ढामतंहन् । अतृणेट् अतृण्ढमतृण्ढ । अतृणहमतृंह्व अतृंह्म । तृंह्रात् । तृह्रात् । अतर्हीत् । अतर्हिष्यत् । हिसिधातोरुदाहरति - हिनस्तीति । इह श्नमि इदित्त्वान्नुमि च कृते 'श्नान्न लोपःर' इति नुमो लोप इति भावः । हिंस्तः हिंसन्ति । हिनस्सि हिंस्थः हिंस्थ । हिनस्मि हिंस्वः हिंस्मः । जिहिंसेति । किति इदित्तवान्नलोपो न । जिहिंसतुः । जिहिंसिथ । हिंसितेति । सेडिति भावः । हिंसिष्यति । हिनस्तु हिंस्ताम् । हौ श्नमि नुमि कृते 'श्नान्नलोपः' इतिनुमो लोपे हेरपित्त्वेन ङित्त्वात्श्नसो॑रित्यल्लोपेधिचे॑ति सलोपे, हिन्धीति रूपम् । हिंस्तात् । हिनसानि । अहिनत् अहिस्तामहिंसन् । सिपि रुर्वा - अहिनः अहिनत्, अहिंस्तम् । अहिनसमहिंस्व । हिंस्यात् हिंस्याताम् । आशीर्लिङ श्नमभावान्नुमेव । इदित्त्वान्नलोपो न । हिंस्यादित्येव । हिंस्यास्ताम् । अहिंसीत् । अहिंसिष्यत् । उन्दी क्लेदने । उन्दन्तीति । उनत्सि उन्त्थः । उनद्मि उन्द्वः । उन्दामिति । इजादेश्चेत्याम् । उन्दिता । उन्दिष्यति । उनत्तु - उन्त्तात् । उन्द्धि । उनदानि । लह्राह - औनदिति । औत्त्वाद्वेट् । अनक्तीति । श्नमि कृते परसवर्णस्याऽसिद्धत्वात् 'श्नान्न लोपः' इति नकारलोपे जस्य कुत्वेन गः, तस्य चर्त्वेन क इत भावः । अङक्त इति । नलोपे अल्लोपे जस्य कुत्वेन गः । गस्य चर्त्वेन कः । श्नमो नस्य परसवर्णो ङ इति भावः । अञ्जन्तीति । नलोपाऽल्लोपौ । श्नमो नस्य परसवर्णो ञ इति भावः । अनक्षि अङ्क्थः । अनज्मि अञ्ज्वः । अङ्ग्धीति । हौ श्नमि धिभावे नलोपाऽल्लोपौ । जस्य कुत्वेन गकारः । नस्य परसवर्णो ङकार इति भावः । अनजानीति । श्नान्नलोपः । आटः पित्त्वादल्लोपो न । लह्राह - आनगिति । आङ्क्ताम् । आञ्जन् । अञ्ज्यात् । अज्यात् ।

Padamanjari

Up

तृणेढैइति । इमि कृते श्नमोऽकारेण सह ठाद्गुणःऽ,'हो ढः' ,'झषस्तथोर्धो' धःऽ, ष्टुअत्वम्, ढलोपः । तृणेक्षीति ।'षढोः कः सि' । अतृणेडिति । लङ्, तिप्सिपोरन्यतरः, हल्ङ्यादिलोपः, ढत्वजश्चचर्त्वानि । ननुं च'हलादौ' इत्युच्यते, न चात्र हलादिं पश्यामः ? प्रत्ययलक्षणेन । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? अत आह - वर्णाश्रयेऽप्यत्रेति । यत्र केवलो वर्ण एव निमितं यस्य स वर्णाश्रयः, यथा - गवे हितं गोहितमित्यवादेशः । इह तु पिति सार्वधातुक इति प्रत्यय एव निमितम्, हल् तस्य विशेषणम्, तेनासौ प्रत्ययनिमितत्वाद्भवत्येवेत्यर्थः । तृणहानीति । लोट्,'मेनिः' । तृणाढ इति । तस् ढत्वादि पूर्ववत्,'श्नसोरल्लोपः' , अनुस्वारपरसवर्णौ । अथ किमर्थं तृहिरागतश्नम्को गृह्यते ? रौधादिकस्य'तृह हिंसायाम्' इत्यस्य ग्रहणं यथा स्यात्,'तृहि हिंसायाम्' इत्यस्य तौदादिकस्य ग्रहणं मा भूत् । नास्य पिद्धलादिसार्वधातुक मनन्तरं सम्भवति; विकरणेन व्यवधानात् । ननु चास्यापि यङ्लुगन्तस्य सम्भवति, एवं तर्हि सानुबन्धकत्वात् तस्य ग्रहणं न भविष्यति ? अत आह - तृणह इतीत्यादि । यद्यागतश्नम्को न गृह्यएत, ततो नाप्राप्ते श्नम्यारभ्यमाण इम् तस्य बाधकः स्यात् । अथापि न बाधकः, एवमपि श्नमि कृते इमितीष्टव्यवस्था न स्यात् । विपर्ययोऽपि स्यात् - पूर्वमिमागमः, पश्चात् श्नमिति । सश्नम्कनिर्द्देशे तु न श्नमो निवृत्तिर्भवति, इष्टा च व्यवस्था सिध्यति - पूर्वं श्नम्, पश्चादिमिति । अतस्तदर्थमागतश्नन्को गृह्यते । किञ्च - रौधादिकस्यापि यङ्लुगन्तस्य ग्रहणं भवति सश्नम्कनिर्द्देशादेव ॥