ऊर्णोतेर्विभाषा

7-3-90 ऊर्णोतेः विभाषा पिति सार्वधातुके वृद्धिः हलि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऊर्णोतेर्विभाषा वृद्धिर्भवति हलादौ पिति सार्वधातुके। प्रोर्णौति, प्रोर्णोति। प्रोर्णौषि, प्रोर्णोषि। प्रोर्णौमि, प्रोर्णोमि। हलीत्येव — प्रोर्णवानि॥

Siddhanta Kaumudi

Up

वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति । ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । उर्णुवाते । ऊर्णुवते ।<!ऊर्णोतेराम्नेति वाच्यम् !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके। ऊर्णौति, ऊर्णोति। ऊर्णुतः। ऊर्णुवन्ति। ऊर्णुते। ऊर्णुवाते। ऊर्णुवते। <<ऊर्णोतेराम्नेति वाच्यम्>> (वार्त्तिकम्)॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऊर्णोतेर्विभाषा>> - ऊर्णोतेर्विभाषा ।उतो वृद्धि॑रित्यतो वृद्धिरिति, हलीति चानुवर्तते ।नाभ्यस्तस्ये॑त्यतः 'पिति सार्वधातुके' इति च । इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — वृद्धिः स्यादित्यादिना । लिटिइजादे॑रिति,कास्यनेका॑जिति च आमि प्राप्ते आह — ऊर्णोतेराम् नेति । ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाऽभावादिति भावः । णलि ऊर्णु अ इति स्थितेअजादेर्द्वितीयस्ये॑तिर्नु॑इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते — —

Padamanjari

Up