मीनातेर्निगमे

7-3-81 मीनातेः निगमे शिति ह्रस्वः

Kashika

Up

index: 7.3.81 sutra: मीनातेर्निगमे


मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये। प्रमिणन्ति व्रतानि। निगमे इति किम्? प्रमीणाति।

Siddhanta Kaumudi

Up

index: 7.3.81 sutra: मीनातेर्निगमे


शिति ह्रस्वः । प्रमिणन्ति व्रतानि (प्रमि॑णन्ति व्र॒तानि॑) । लोके प्रमीणन्ति । अस्तिसिचोऽपृक्ते <{SK2225}> ।