7-3-7 स्वागतादीनां च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः न
index: 7.3.7 sutra: स्वागतादीनां च
स्वागत इत्येवमादीनां यदुक्तं तन् न भवति। स्वागतम् इत्याह स्वागतिकः। स्वध्वरेण चरति स्वाध्वरिकः। स्वङ्गस्य अपत्यम् स्वङ्गिः। व्यङ्गस्य अपत्यम् व्याङ्गिः। व्यडस्य अपत्यम् व्याडिः। व्यवहारेण चरति व्यावहारिकः। व्यवहारशब्दोऽयं लौकिके वृत्ते वर्तते, न तु कर्मव्यतिहारे। स्वपतौ साधुः स्वापतेयः। द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः। स्वागत। स्वध्वर। स्वङ्ग। व्यङ्ग। व्यड। व्यवहार। स्वपति। स्वागतदिः।
index: 7.3.7 sutra: स्वागतादीनां च
ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्याहरेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् ।<!आहौ प्रभूतादिभ्यः !> (वार्तिकम्) ॥ प्रभूतमाह प्राभूतिकः । पार्याप्तिकः ।<!पृच्छतौ सुस्नातादिभ्यः !> (वार्तिकम्) ॥ सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः । गच्छतौ परदारादिभ्यः ॥ पारदारिकः । गौरुतल्पिकः ॥
index: 7.3.7 sutra: स्वागतादीनां च
स्वागतादीनां च - स्वागतादिगणे-स्वागत, स्वध्वर इति पठितं, तत्र विशेषमाह — स्वागतादीनां च ।न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच॑ इति प्रकरणे 'न कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति । शेषपूरणमिदम् ।न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच॑ इति प्राप्त ऐज्न स्यादित्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्याहेत्यर्थः । अथ स्वागतादिगणशेषमुदाहरति — स्वङ्गस्येति । व्याङ्गिरिति । व्यङ्गस्यापत्यमिति विग्रहः । व्यडस्येति । न विद्यते डो यस्य स अडः, विगतोऽडो व्यडः । स्वापतेयमिति ।पथ्यतिथिवसतिस्वपतेर्ढञ् । द्वारादित्वादैच् प्राप्तो निषिध्यते । आहाविति । आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः । तदिति पूर्ववार्तिकादनुवर्तते । आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्ठग्वाच्य इत्यर्थः । पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति ।त॑दित्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यष्ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति । 'सुखशयनशब्द' इति शेषः । ततश्चअनुशतिकादीनां चे॑ति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः । गच्छताविति । तदित्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यष्ठगित्यर्थः । पारदारिक इति । परदारान्गच्छतीत्यर्थः । गौरुतल्पिक इति । गुरुतल्पं गच्छतीत्यर्थः । गुरुतल्पो=गुरुस्त्री ।
index: 7.3.7 sutra: स्वागतादीनां च
व्यावक्रोशीत्यादौ व्यवपूर्वो धातुः कर्मव्यतिहारे दृष्ट इति व्यवहारशब्दोऽपि कर्मव्यतिहारे वर्तते, ततश्च पूर्वेणैवात्र सिद्धेरत्रास्य पाठोऽनर्थक इत्याशङ्क्याह - व्यवहारशब्दोऽयमिति । द्वारादिषु स्वशब्दस्य पाटादत्र प्रसङ्ग इति ।'तदादेरपि तत्र ग्रहणं भवति' इत्युक्तमेव ॥