ओतः श्यनि

7-3-71 ओतः श्यनि लोपः

Kashika

Up

index: 7.3.71 sutra: ओतः श्यनि


ओकारान्तस्य अङ्गस्य श्यनि परतो लोपो भवति। शो निश्यति। छो अवछ्यति। द्यो अवद्यति। सो अवस्यति।

Siddhanta Kaumudi

Up

index: 7.3.71 sutra: ओतः श्यनि


लोपः स्यात् । श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषा घ्राधेट् - <{SK2376}> इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् ।{$ {!1146 छो!} छदने$} । छयति ।{$ {!1147 षो!} ऽन्तकर्मणि$} । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ ।{$ {!1148 दो!} अवखण्डने$} । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ॥ अथात्मनेपदिनः पञ्चदश ॥{$ {!1149 जनी!} प्रदुर्भावे$} ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.71 sutra: ओतः श्यनि


लोपः स्यात्। श्यति। श्यतः। श्यन्ति। शशौ। शशतुः। शाता। शास्यति॥

Balamanorama

Up

index: 7.3.71 sutra: ओतः श्यनि


ओतः श्यनि - ओतः श्यनि ।घोर्लोपो लेटि वे॑त्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लोपः स्यादिति । शशाविति । 'आदेच' इत्यात्त्वे णल औत्त्वमिति भावः । शशतुरिति । शशिथ — शशाथ । शशिव.शास्यतीति । श्यतु । अश्यत् । श्येत् । शायात् । लुङि सिचि विशेषमाह — विभाषा घ्रेति । सिचो लुक्पक्षे आह — अशादिति । 'आतःर' इति जुसिति मत्वा आह — अशुरिति । सिचो लुगभावे सगिटौ मत्वा आह — अशासीदिति । छोदातुरपि शोधातुवत् । षो अन्तकर्मणीति । समापने विनाशने वेत्यर्थः । शोधातुवद्रूपाणि । षोपदेशोऽयम् । स्यतीति ।ओतः श्यनी॑ति लोपः । अभिष्यतीति ।उपसर्गा॑दिति षत्वम् । अभ्यष्यदिति ।प्राक्सिता॑दिति षत्वम् । अभिससाविति ।स्थादिष्वि॑ति नियमान्न षः । दो अवखण्डने । प्रणिदातेति ।नेर्गदे॑ति णत्म् । देयादिति । आशीर्लिङिएर्लिङी॑त्येत्त्वम् । अदादिति ।गातिस्थे॑ति सिचो लुक् । अथात्मनेपदिन इति । 'वाशृ शब्दे' इत्यन्ता इत्यर्थः । जनी प्रादुर्भावे इति ।श्वीदितो निष्ठाया॑मित्याद्यर्थमीदित्त्वम् ।

Padamanjari

Up

index: 7.3.71 sutra: ओतः श्यनि


श्यतीत्यादि।'शो तनूकरणे' ,'छाए छेदने' ,'दो अवखण्डने' ,'षो अन्तकर्मणि' । इहि ठोतः शितिऽ इति वक्तव्यम्, न च ओकारान्तानां श्यनोऽन्यः शित् सम्भवति, अर्धमात्रया च लाघवं भवति; तत्रायमप्यर्थः -'ष्ठिवुल्कमुचमां शिति' इति शिद्ग्रहणं न कर्तव्यं भवति, इदमेवानुवर्तिष्यते । ननु श्यन्ग्रहणमुतरार्थं कर्तव्यम् -'शमामष्टानाम्' इति ? तत्राप्यस्तु शितीत्येव; यदि शितीत्युच्यते, भ्रमे'वा भ्राश' इति पक्षे शब् भ्रमति - अत्रापि प्राप्नोति ? शमादिभिः शितं विशेषयिष्यामः - शमादिभ्यो यो विहितः शिदिति, श्यन्नेव च सर्वेभ्यः शमादिभ्यो विहितः, एवमपि शिद्विशेषणत्वेन शमादीनामुपयोगात्कार्यनिर्द्देशाभावात् नश्यतीत्यादावपि प्रसङ्गः ? नैष दोषः; ठष्टानाम्ऽ इत्यनेन संख्येयाः कार्यिणो निर्दिश्यन्ते, ते च सन्निधानात् शमादय एव विज्ञास्यन्ते ॥