भोज्यं भक्ष्ये

7-3-69 भोज्यं भक्ष्ये चजोः कु ण्ये

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भोज्यं निपात्यते भक्ष्येऽभिधेये। भोज्य ओदनः। भोज्या यवागूः। इह भक्ष्यमभ्यवहार्यमात्रम्। भक्ष्य इति किम्? भोग्यः कम्बलः॥

Siddhanta Kaumudi

Up

भोग्यमन्यत् ॥<!ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ॥

Laghu Siddhanta Kaumudi

Up

भोग्यमन्यत् ॥ इति कृत्यप्रक्रिया ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भोज्यं भक्ष्ये>> - भोज्यं भक्ष्ये । भक्ष्ये गम्ये ण्ये भुजेः कुत्वाऽभावो निपात्यते । इति प्रासङ्गिकम् । अथ प्रकृतम् — लपिदभिभ्यां चेति । वार्तिकमिदम्ऋहलोण्र्य॑दिति सूत्रस्थम् । 'पोरदुपधा' दिति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः ।

Padamanjari

Up

भोज्या यावगूरिति । ननु भक्षिरयं खरविशदेऽभ्यवहार्ये वर्तत इति'संस्कृतं भक्षाः' इत्यत्रोक्तम्, तत्कथं द्रवद्रव्ये भवति ? इत्यत आह - इहेति । एवं मन्यते - नात्र भक्षिः खरविशद एव वर्तते; अब्भक्षः, वायुभक्ष इत्यत्रापि दर्शनादिति शब्दान्तरसन्निधिबलादेतदेवं भवति ।'स्वभावतस्तु भक्षिः खरविशद एव वर्तते' इति वार्तिककारस्य पक्षः, यदाह -'भोज्यमभ्यवहार्य इति वक्तव्यम्' इति ॥