वचोऽशब्दसंज्ञायाम्

7-3-67 वचः अशब्दसञ्ज्ञायाम् चजोः कु ण्ये

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वचोऽशब्दसंज्ञायां ण्यति परतः कवर्गो न भवति। वाच्यमाह। अवाच्यमाह। अशब्दसंज्ञायामिति किम्? अवघुषितं वाक्यमाह॥

Siddhanta Kaumudi

Up

वाच्यम् । शब्दाख्यायां तु वाक्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वचोऽशब्दसंज्ञायाम्>> - वचोऽशब्दसंज्ञायाम् । वचधातोर्ण्ये कुत्वं न, शब्दसंज्ञां वर्जयित्वेत्यर्थः । वाच्यमिति । वस्त्विति शेषः ।अशब्दसंज्ञायामित्यस्य प्रयोजनमाह — शब्दाख्यायां तु वाक्यमिति ।एकतिङ् वाक्य॑मिति संज्ञाशब्दोऽयमिति भावः ।प्रवाच्य॑मित्यत्र तु ग्रन्थविशेषसंज्ञात्वेऽपि नायं कुत्वनिषेधस्य निषेधः,यजयाचे॑त्यत्र प्रवचेति विशिष्योपादनात्, असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात् । एतदभिप्रायेणैवप्रवाच्यं ग्रन्थविशेष॑ इत्युक्तं प्राक् ।

Padamanjari

Up