यजयाचरुचप्रवचर्चश्च

7-3-66 यजयाचरुचप्रवचर्चः च चजोः कु ण्ये

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यज याच रुच प्रवच ऋच इत्येतेषां ण्ये परतः कवर्गादेशो न भवति। यज — याज्यम्। याच — याच्यम्। रुच — रोच्यम्। प्रवच — प्रवाच्यम्। ऋच — अर्च्यम्। ऋदुपधादपि ऋचेरत एव निपातनाद् ण्यद् भवति। प्रवचग्रहणं शब्दसंज्ञार्थम्। प्रवाच्यो नाम पाठविशेषोपलक्षितो ग्रन्थोऽस्ति। अपरे पुनराहुः — उपसर्गपूर्वस्य नियमार्थम्। प्रपूर्वस्यैव वचेरशब्दसंज्ञायां कुत्वप्रतिषेधो यथा स्याद्, अन्योपसर्गपूर्वस्य मा भूदिति। अविवाक्यमहरिति पठन्ति। एतत् तु विशेष एवेष्यते, दशरात्रस्य यद् दशममहः। अन्यत्राविवाच्यमेव भवति॥ ण्यति प्रतिषेधे त्यजेरुपसंख्यानम्॥ त्याज्यम्॥

Siddhanta Kaumudi

Up

ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । ऋच् । अर्च्यम् । ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् ।<!त्यजेश्च !> (वार्तिकम्) ॥ त्याज्यम् । त्यजिपूज्योश्चेति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यम् । भाष्यानुक्तत्वात् ।<! ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम् !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यजयाचरुचप्रवचर्चश्च>> - यजयाच । ण्ये कुत्वं नेति । शेषपूरणमिदम् । यज, या, रुच, प्रवच, ऋच् एषां द्वन्द्वात् षष्ठी । एषां ण्ये परेचजोः कु घिण्ण्यतो॑रिति कुत्वं नेत्यर्थः । ननु अच्र्यमित्यत् र कथं ण्यत्,ऋदुपधाच्चाऽकॢपिचृते॑रिति ऋदुपधत्वलक्षस्य ण्यदपवादत्वादित्यत आह — ऋदुपधत्वेऽपीति । त्यजिपूज्योश्चेति ।ण्ये कुत्वं ने॑ति शेषः ।

Padamanjari

Up

अर्क्ष्यमिति । ठृच स्तुतौऽ । प्रवाच्यो नामेति । प्रकर्षेणोच्यत इति प्रवाच्यःउपाठविशेषोपलक्षितो ग्रन्थविशेषः । अपरे पुनरिति । ते मन्यन्ते - प्रपूर्वो वचिरशब्दसंज्ञायामेव वर्तते, तत्र विधेयासम्भवान्नियम इति । एतच्चेति । अविवाक्यमित्येतावच्छब्दरूपम् । कः पुनरसौ विशेषः ? इत्यत आह - दशरात्रस्येति । द्वादशाहेऽभितो द्विरात्रो मध्ये दशरात्रः, तस्य दशममहःउअविवाक्यम् । अन्यत्रेति । तथा च नास्मिन्नहनि केनचित् कस्यचिद्विवाच्यम्, अविवाक्यमित्येतदाचक्षते । संशये बहिर्वेदिस्वाध्यायप्रयोगोऽन्तर्वेदीत्येके इत्यहर्विशेषे कुत्वम्, अन्यत्र तदभावः प्रयुक्त आश्वलायनेन । एवमन्योपसर्गपूर्वस्यापि प्रतिषेध एवेष्यते, न नियमः । एवञ्च कृत्वा प्रवचिग्रहणं शक्यमकर्तुम्; अहर्विशेष पृषोदरादित्वात्कुत्वम्, अन्यत्र प्रतिषेध इति सिद्धमिष्टम्; अन्यथा नियमे हि बहु प्रतिविधेयं स्यात् ॥