7-3-64 ओकः उचः के चजोः कु न
उचेर्धातोः के प्रत्यय ओक इति निपात्यते। किं पुनरत्र निपात्यते? कुत्वं गुणश्च। न्योकः शकुन्तः। न्योको गृहम्। कर्तरि इगुपधलक्षणः कः प्रत्ययः। अधिकरणादौ तु कारकान्तरे <<घञर्थे कविधानम्०>> (३.३.५८. वा०) इति। किमर्थं पुनरयं घञ्येव न व्युत्पाद्यते? स्वरार्थम्, अन्तोदात्तोऽयमिष्यते, घञि सत्याद्युदात्तः स्यात्। दिवौकसः, जलौकस इत्येवमादावप्यसुनि प्रत्यय <<उणादयो बहुलम्>> ३.३.१ इति कुत्वं द्रष्टव्यम्॥
उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषलौ । इगुपधलक्षणः कः । घञा सिद्धेऽन्तोदात्तार्थमिदम् ॥
ठुच समवायेऽ । न्योकः शकुन्त इति । न्युचति समवैति नीडादाविति कृत्वा । न्योको गृहमिति । न्युचन्ति समवयन्ति वसन्ति तस्मिन् इति कृत्वा । असुनि प्रत्यय इति । अयमेव लोके साधीयः प्रयुज्यते ॥