वञ्चेर्गतौ

7-3-63 वञ्चेः गतौ चजोः कु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वञ्चेरङ्गस्य गतौ वर्तमानस्य कवर्गादेशो न भवति। वञ्च्यं वञ्चन्ति वणिजः। गताविति किम्? वङ्कं काष्ठम्। कुटिलमित्यर्थः॥

Siddhanta Kaumudi

Up

कुत्वं न । वञ्च्यम् । गतौ किम् । वङ्क्यं काष्ठम् । कुटिलाकृतमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वञ्चेर्गतौ>> - वञ्चेर्गतौ । कुत्वं नेति । शेषपूरणमिदम् ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणस्य,न क्वादे॑रित्यतो नेत्यस्य चाऽनुवृत्तेरिति भावः ।

Padamanjari

Up

वञ्च्यं वञ्चन्तीति । गन्तव्यं गच्छन्तीत्यर्थः । वङ्कमिति । गुणशब्दोऽयम्भावे घञ्, अभेदोपचाराद् गुणिनि वृत्तिः ॥