प्रयाजानुयाजौ यज्ञाङ्गे

7-3-62 प्रयाजानुयाजौ यज्ञाङ्गे चजोः कु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रयाज अनुयाज इत्येतौ निपात्येते यज्ञाङ्गे। पञ्च॑ प्रया॒जाः (तै०सं० २.६.१०.४)। पञ्चानुयाजाः। त्वमग्ने प्रयाजानां पश्चात् त्वं पुरस्तात्। यज्ञाङ्ग इति किम्? प्रयागः। अनुयागः। प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्, अन्यत्राप्येवंप्रकारे कुत्वं न भवति। एकादशोपयाजाः (ऐ०ब्रा० २.१८)। उपांशुयाजमन्तरा यजति। अष्टौ पत्नीसंयाजा भवन्ति। ऋतुयाजैश्चरिन्त (ऐ०ब्रा० २.२९)। इत्येवमादि सिद्धं भवति॥

Siddhanta Kaumudi

Up

एतौ निपातौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । यज्ञाङ्गे किम् । प्रयागः । अनुयागः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पञ्चानुयाजा इति । दर्शपूर्णमासयोस्त्रयोऽनुयाजाः, चातुर्मास्येषु नव, पशुष्वेकादश, पञ्चत्वं न क्वापि दृष्टम्, तस्मात् त्रयोऽनुयाजा इति पाठः । प्रदर्शनार्थमिति । एतच्च यज्ञग्रहणाल्लभ्यते, उपातयोर्हि यज्ञाङ्गविषयत्वं निपातनादेव सिद्धम्, उपांशुयागस्य ऋतुयाजानां च यज्ञसमुदायं प्रत्यवयवत्वाद् यज्ञाङ्गत्वम् । प्रधानयागा ह्यएते; इतरेषां तु फलवत्सन्निधावफलं तदङ्गमित्यङ्गत्वम् ॥