भुजन्युब्जौ पाण्युपतापयोः

7-3-61 भुजन्युब्जौ पाण्युपतापयोः चजोः कु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भुज न्युब्ज इत्येतौ शब्दौ निपात्येते पाणावुपतापे च। भुज्यतेऽनेनेति भुजः पाणिः। <<हलश्च>> ३.३.१२१ इति घञ्। तत्र कुत्वाभावो गुणाभावश्च निपात्यते। <<उब्ज आर्जवे>> न्युब्जिताः शेरतेऽस्मिन्निति न्युब्ज उपतापो रोगः। तथैव घञि कुत्वाभावे निपात्यते। पाण्युपतापयोरिति किम्? भोगः। समुद्गः॥

Siddhanta Kaumudi

Up

एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्च <{SK3300}> इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्गः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up