7-3-60 अजिव्रज्योः च चजोः कु न
अजि व्रजि इत्येतयोश्च कवर्गादेशो न भवति। समाजः। उदाजः। व्रजि — परिव्राजः। परिव्राज्यम्। अजेस्तु <<अजेर्व्यघञपोः>> २.४.५६ इति वीभावस्य विधानाद् ण्यति नास्त्युदाहरणम्॥
न कुत्वम् । समाजः । परिव्राजः ॥
<<अजिवृज्योश्च>> - अजिव्रजय्श्चेत्यादि स्पष्टम् ।
समाजः, उदाज इति । पशुभ्योऽन्यत्र'हलश्च' इति घञ्, पशुषु तु'समुदोरजः पशुषु' इत्यब्भवति ॥