7-3-59 न क्वादेः चजोः कु
index: 7.3.59 sutra: न क्वादेः
कवर्गादेः धातोः चजोः कवर्गादेशो न भवति। कूजो वर्तते। खर्जः। गर्जः। कूज्यम् भवता। खर्ज्यम्, गर्ज्यम् भवता।
index: 7.3.59 sutra: न क्वादेः
क्वादेर्धातोश्चजोः कुत्वं न । गर्ज्यम् । वार्तिककारस्तु चजोः-<{SK2863}> इति सूत्रे निष्ठायामनिट इति पूरयित्वा न क्वादेः <{SK2875}> इत्यादि प्रत्याचख्यौ । तेन अर्जितर्जिप्रभृतीनां न कुत्वम् । निष्ठायां सेट्त्वात् । ग्रुचुग्लुञ्चुप्रभृतीनां तु क्वादित्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तं तथापि यथोत्तरं मुनीनां प्रामाण्यम् ॥
index: 7.3.59 sutra: न क्वादेः
न क्वादेः - न क्वादेः । कुः आदिर्यस्येति विग्रहः । 'चजो कुः' इत्यनुवर्तते । तदाह — क्वादेरिति । कवर्गादेरित्यर्थः । वार्तिककारस्त्वित ।चजोः कु घिण्ण्यतोः॑ इति सूत्रे 'निष्ठायामनिटः' इति पूरितम् । तथा च निष्ठायां योऽनिट् तद्धात्ववयवयोश्चजोः कुः॑ स्याद्धिति ण्यति चेत्यर्थः फलति । तथान क्वादे॑रिति सूत्रम्अजिव्रज्योश्चे॑ति सूत्रंयजयाचरुचप्रवचर्चश्चे॑त्यत्र याचरुचग्रहणं च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः । किं तत इत्यत आह — तेनेति । सूत्रमते अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात्, 'न क्वादेः' इति निषेधस्य तत्राऽप्रवृत्तेरिति भावः । तदेवं सूत्रमतेऽतिव्याप्तिमुक्त्वा अव्याप्तिमाह — ग्रुचुरग्लुञ्चुप्रभृतीनामिति । तेषां कवर्गादित्वे ।ञपि ण्यति ग्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव, वार्तिकमतेन क्वादे॑रिति निषेधस्य प्रत्यख्यातत्वात्, सूत्रमते तुन क्वादे॑रिति निषेधात्ग्रोक्य॑मित्यादौ कुत्वमिष्टं स्यादित्यव्याप्तिरित भावः । नन्विदं वार्तिकं विपरीतफलमपि संमतत्वाद्ग्राह्रमेव, विरोधे विकल्पसय् वक्तुं शक्यत्वादिति शङ्कते — सूत्रमते तु यद्यपीति । परिहरति — तथापीति । यथोत्तरमिति । अयं वैयकारणसमयः ।
index: 7.3.59 sutra: न क्वादेः
कूज इत्यादि ।'कूज अव्यक्ते शब्दे' ,'खर्ज व्यथने' ,'गर्जशब्दे' । अत्र बार्तिकम् -'क्वाद्यजिव्रजियाचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्ववचनात्' इति । अस्यार्थः -'चजोः कु घिण्ण्यतोर्निष्ठायामनिड्' इति सूत्रं कर्तव्यम्, तेनैव क्वाद्यजादीनां कुत्वनिवृतेः सिद्धत्वान्नार्थः प्रतिषेधवचनेनेति । नन्वेवं प्रुचुग्लुचुकुजुखुजूनां निष्ठायाममिटत्वात्कुत्वं प्राप्नोति, तथा अजिसजितर्जीनां निष्ठायां सेट्त्वात् कुत्वाप्रसङ्गः, यथा तु सूत्रं तथा विपर्ययः ? उच्यते;'यथोतरं मुनीनां प्रामाण्यम्' इति वातिकानुसारेण कुत्वस्य भावाभावौ व्यवस्थाप्यौ । नन्वसत्यजेः प्रतिषेधे निवीत इति निष्ठायामनिट्त्वात् समाज इति कुत्वप्रसङ्गः ? नेतदस्ति; व्यादेशो निष्ठायामनिट्, न त्वजिः, स तु वलाद्यार्धधातुके विकल्पेनेष्यते इति वीभावाभावपक्षे अजित इति सेडेव । कथं शोकः, समुद्ग इति, यावता शुच्युव्जी निष्ठायां सेटौ ? एवं तर्हि'शुच्युब्ज्योर्घञि' इति वक्ष्यामि, तच्च यथान्यासेऽपि वक्तव्यम् - घञ्येव यथा स्याद् ण्यति मा भूदिति - अशोच्यानन्वशोच्यस्त्वमिति । तदेव वार्तिककारपक्षे विध्यर्थ भविष्यति ॥