विभाषा चेः

7-3-58 विभाषा चेः चजोः कु अभ्यासात् च सन्लिटोः

Kashika

Up

index: 7.3.58 sutra: विभाषा चेः


चिनोतेः अङ्गस्य सन्लिटोरभ्यासादुत्तरस्य विभाषा कवर्गादेशो भवति। चिचीषति चिकीषति। चिकाय, चिचाय। सन्लिटोः इत्येव, चेचीयते।

Siddhanta Kaumudi

Up

index: 7.3.58 sutra: विभाषा चेः


अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च । प्रणिचिकाय । चिचाय । चिक्ये । चिच्ये । अचैषीत् । अचेष्ट ।{$ {!1252 स्तृञ्!} आच्छादने$} । स्तृणोति । स्तृणुते । गुणोर्ति - <{SK2380}> इति गुणः । स्तर्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.58 sutra: विभाषा चेः


अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च। चिकाय, चिचाय; चिक्ये, चिच्ये। अचैषीत्, अचेष्ट॥॥ {$ {! 3 स्तृञ् !} आच्छादने $} ॥ स्तृणोति, स्तृणुते॥

Balamanorama

Up

index: 7.3.58 sutra: विभाषा चेः


विभाषा चेः - विभाषा चेः ।चजोः कुघिम्ण्यतो॑रित्यतः कुग्रहणमनुवर्तते ।अभ्यासाच्चे॑त्यतोऽभ्यासादिति,सन्लिटोर्जे॑रित्यतः संन्लिटोरिति च । तदाह — अभ्यासादित्यादिना । स्तृञ् आच्छादने इति । अनिट् । लिटि तस्तार । अतुसादौऋतश्च संयोगादेर्गुणः॑ इति गुणः । वृद्धिविषयेऽपि परत्वादस्य प्रवृत्तिः । तस्तरतुः । ऋदन्तत्वात्थल्यपि नित्यंनेट् । तस्तर्थ.तस्तरिव । तस्तरे तस्तराते तस्तरिते । तस्तरिषे । तस्तरिवहे । स्तर्ता ।ऋद्धनोः स्ये॑ ।स्तरिष्यति । आशीर्लिङि परस्मैपदे यासुटः कित्त्वाद्गुणनिषेधे प्राप्ते आह — गुणोर्तीति गुण इति । तङि आशीर्लिङि स्तृ- षीष्ट इति स्थिते -