7-3-57 सन्लिटोः जेः चजोः कु अभ्यासात् च
index: 7.3.57 sutra: सन्लिटोर्जेः
सनि लिटि च प्रत्यये जेः अङ्गस्य योऽभ्यासः तस्मादुत्तरस्य कवर्गाऽदेशो भवति। जिगीषति। जिगाय। सन्लिटोः इति किम्? जेजीयते। जिनातेः सम्प्रसारणे कृते यद्यपि जिर्भवति, तथापि लाक्षणिकत्वात् तस्य ग्रहणं न भवति, जिज्यतुः, जिज्युः इत्येव भवति।
index: 7.3.57 sutra: सन्लिटोर्जेः
जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिगाय । जिगय । जिग्यिव । जिग्यिम । जेता । जीयात् । अजैषीत् ।{$ {!562 जीव!} प्राणधारणे $}। जिजीव ।{$ {!563 पीव!} {!564 मीव!} {!565 तीव!} {!566 णीव!} स्थौल्ये$} । पिपीव । मिमीव । तितीव । निनीव ।{$ {!567 क्षिवु!} {!568 क्षेवु!} निरसने {!569 उर्वी!} {!570 तुर्वी!} {!571 थुर्वी!} {!572 दुर्वी!} {!573 धुर्वी!} हिंसार्थाः$} । ऊर्वांचकार । उपधायां च <{SK2265}> इति दीर्घः । तुतूर्व ।{$ {!574 गुर्वी!} उद्यमने$} । गूर्वति । जुगूर्व ।{$ {!575 मुर्वी!} बन्धने$} ।{$ {!576 पुर्व!} {!577 पर्व!} {!578 मर्व!} पूरणे$} ।{$ {!579 चर्व!} अदने$} ।{$ {!580 भर्व!} हिंसायाम्$} ।{$ {!581 कर्व!} {!582 खर्व!} {!583 गर्व!} दर्पे$} ।{$ {!584 अर्व!} {!585 शर्व!} {!586 षर्व!} हिंसायाम्$} । आनर्व । शर्वति । सर्वति ।{$ {!587 इवि!} व्याप्तौ$} । इन्वति । इन्वांचकार ।{$ {!588 पिवि!} {!589 मिवि!} {!590 णिवि!} सेचने$} । तृतीयो मूर्धन्योष्मादिरित्येके । सेवन इति तरङ्गिण्याम् । पिन्वति । पिपिन्व ।{$ {!591 हिवि!} {!592 दिवि!}$} ।{$ {!593 धिवि!} {!594 जिवि!} प्राणनार्थाः$} । हिन्वति । दिन्वति ॥
index: 7.3.57 sutra: सन्लिटोर्जेः
'ज्या वयोहानौ' - इत्यस्य किति ग्रहिज्यादिसूत्रेण सम्प्रसारणे कृते पूर्वत्वे च जिरूपस्य भावाद्'हलः' इति दीर्घत्वं बाधित्वा कुत्वं प्राप्नोति, कृतेऽपि वा दीर्घत्वे एकदेशविकृतस्यानन्यत्वात्कुत्वप्रसङ्गः, यथा - जिगीषतीत्यत्र, इत्यत आह - जिनातेरित्यादि । ठेरनेकाचःऽ इति यण देशः ॥