हेरचङि

7-3-56 हेः अचङि चजोः कु हन्तेः अभ्यासात् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हिनोतेर्हकारस्याभ्यासादुत्तरस्य कवर्गादेशो भवत्यचङि। प्रजिघीषति। प्रजेघीयते। प्रजिघाय। अचङीति किम्? प्राजीहयद् दूतम्। अचङीति शक्यमकर्तुम्। कथम्? चङ्यभ्यासनिमित्ते णौ हिनोतिरङ्गं भवति, तत्राभ्यासनिमित्ते प्रत्यये हेरङ्गस्येति विज्ञायमाने प्राप्तिरेव नास्ति। तत् क्रियते ज्ञापकार्थम्। एतद् ज्ञाप्यते — <<हेरचङीति चङोऽन्यत्र हेर्ण्यधिकस्यापि कुत्वं भवति>> इति। तेन प्रजिघाययिषतीति सिद्धं भवति॥

Siddhanta Kaumudi

Up

अभ्यासात्परस्य हिनोर्हस्य कुत्वं स्यान्न तु चङि । जिघाय ।{$ {!1258 पृ!} प्रीतौ$} । पृणोति । पर्ता ।{$ {!1259 स्पृ!} प्रीतिपालनयोः$} । प्रीतिचलनयोरित्यन्ये । चलनं जीवनमिति स्वामी । स्पृणोति । पस्पार । स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयश्छान्दसा इत्याहुः ।{$ {!1260 आप्लृ!} व्याप्तौ$} । आप्नोति । आप्नुतः । आप्नुवन्ति । आप्नुवः । आप । आप्ता । आप्नुहि । लृदित्त्वादङ् । आपत् ।{$ {!1261 शकॢ!} शक्तौ$} । अशकत् ।{$ {!1262 राध!} {!1263 साध!} संसिद्धौ$} । राध्नोति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<हेरचङि>> - हेरचङि । 'चजोः' इति सूत्रात्कुग्रहणमनुवर्तते ।अभ्यासाच्चे॑त्यतोऽभ्यासादिति ।हो हन्ते॑रित्यतो ह इति षष्ठन्तमनुवर्तते । तदाह — अभ्यासात्परस्येति । जिघायेति । जिघ्यतुः । जिघयिथ — जिघेथ । जिघ्यिव । आप्लृ व्याप्तौ । अनिट् । आप्नुवन्तीति । संयोगपूर्वकत्वादेवउतश्च प्रत्यया॑दिति हेर्न लुक् । शक्लृ शक्ताविति । शक्नोति । शशाक । शेकतुः । शशक्थः शेकिथ । शेकिव.शक्ता । शक्ष्यति । अशकदिति । लृदित्त्वादङ् । राध साध संसिद्धौ । अनिटौ । दीर्घाकारवत्त्वात्अत एकह॑लिकत्यप्राप्तावाह —

Padamanjari

Up

प्राजीहयदिति । ण्यन्ताल्लुङ्, चङ्, णिलोपः, उपधाह्रस्वत्वम्,'चङ्' ईति द्विर्वचनम्,'कुहोश्चुः' इति कुत्वम्,'दीर्घो लघोः' इति दीर्घः । ठचङ्ऽ इत्येतित्प्रत्याचष्टे - अचङीति शक्यमकर्तुमिति । कथम् ? इत्यत आह - चङ्यभ्यासेति । यथा पूर्वसूत्रे जिहननीयिषतीत्यत्र न भवति, एवं प्राजीहयदित्यत्रापि न भविष्यति, किमचङीत्यनेनेत्यर्थः । तत्क्रियत इत्यादिपरिहारः । किमेतस्य ज्ञापने प्रयोजनम् ? इत्यत आह - तेनेति ॥