न्यग्रोधस्य च केवलस्य

7-3-5 न्यग्रोधस्य च केवलस्य वृद्धिः अचः ञ्णिति तद्धितेषु आदेः न य्वाभ्यां

Kashika

Up

index: 7.3.5 sutra: न्यग्रोधस्य च केवलस्य


न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्य अचामादेः अचः स्थाने वृद्धिर्न भवति, तस्माच् च पूर्वम् ऐकार आगमो भवति। न्यग्रोधस्य विकारः नैयग्रोधः चमसः। केवलस्य इति किम्? न्यग्रोधमूले भवाः शालयः न्याग्रोधमूलाः शालयः। न्यग्रोधयतीति न्यग्रोधः इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम्।

Siddhanta Kaumudi

Up

index: 7.3.5 sutra: न्यग्रोधस्य च केवलस्य


अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् ॥

Balamanorama

Up

index: 7.3.5 sutra: न्यग्रोधस्य च केवलस्य


न्यग्रोधस्य च केवलस्य - न्यग्रोधस्य च ।न य्वाभ्या॑मित्युत्तरसूत्रमिदम् । अस्येति केवलस्य न्यग्रोधस्येत्यर्थः । केवलत्वं पदान्तरविहीनत्वं । न्यक् रोहितीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपिनय्वाभ्या॑मित्येव सिद्धं, यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमार्थं सूत्रम् । अव्युत्पत्तिपक्षे तु यकारस्य अपदान्तत्वाद्विध्यर्थमेव । केवलस्य किम् । न्याग्रोधमूलाः शालयः ।

Padamanjari

Up

index: 7.3.5 sutra: न्यग्रोधस्य च केवलस्य


नैयग्रोध इति । नीचैर्गतौ प्ररोहैर्वर्धत इत्यर्थः । अव्युत्पत्तिपक्षे तु विध्यर्थमिति । अपदान्तत्वाद्यकारस्य । अथास्मिन्नपि पक्षे केवलग्रहणं किमर्थम्, यावता न्यग्रोधस्येत्युज्यते, तत्र कः प्रसङ्गो यतदादौ स्यात् ? ज्ञापनार्थं तु । एतज्ज्ञापयति - असमिन्प्रकरणे यान्युपातानि तानि तदादिवृद्धिभाजोऽचो विशेषणानीति ॥